________________
आगम
(४३)
प्रत
सूत्रांक
||१४
-१५||
दीप
अनुक्रम [१०८९
-१०९०]
उत्तराध्य.
बृहद्वृत्तिः ॥५६२॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || १४-१५ ||
अध्ययनं [२८],
| ततोऽवश्यममीषां निबन्धनेन भवितव्यं तच न द्रव्यमेव, तस्य सदाऽवस्थितत्वेन प्रतिनियतकालैकत्वादिप्रत्ययानुत्पत्तिप्रसङ्गात्, ततश्च यदमीषां कालनियमेनोत्पत्तिनिबन्धनं न तत्पर्यवेभ्यस्तत्तत्परिणतिविशेषरूपेभ्योऽन्यत्, गुणानां तु लक्षणानभिधानं रूपादिरूपाणां तेषामतिप्रतीतत्वात् प्रायो विप्रतिपत्यविषयत्वाच्चेति सूत्रार्थः ॥ इत्थं खरूपतो विषयतश्च ज्ञानमभिधाय दर्शनमुपदर्शयितुमाह
Education intemational
जीवा जीवा य बंधो य, पुण्णं पावाssसवो तहा। संवरो निजरा मुक्खो, संतेए तहिया नव ॥१४॥ तहियाणं तु भावाणं, सम्भावे उवएसणं । भावेण सद्दहंतस्स, सम्मत्तं ति वियाहियं ॥ १५ ॥ 'जीवाः' उक्तलक्षणाः 'अजीवाश्च' धर्मास्तिकायादय उक्तरूपा एवं 'बन्धश्थ' जीवकर्मणोरत्यन्तसंश्लेषः पुण्यं - शुभप्रकृतिरूपं पापम्-अशुभं मिध्यात्वादि आश्रवति - आगच्छत्यनेन कर्मेत्याश्रवः-कर्मोपादानहेतुर्हिसादिः, पुण्यादीनां च कृतद्वन्द्वानामिह निर्देशः, 'तथे 'ति समुचये, संवरणं संवरः- गुप्त्यादिभिराश्रवनिरोधः निर्जरणं निर्जरा - विपाकात्तपसो वा कर्मपरिसाट:, 'मोक्षः' कृत्स्त्रकर्मक्षयात्स्वात्मन्यवस्थानं, 'सन्ति' विद्यन्ते 'एते' अनन्तरोक्ताः 'तथ्याः' अवितथा निरुपचरितवृत्तयो, न तु सुगतसाङ्ख्योलूकादिकल्पितपदार्थवद्विचाराक्षमाः, यथा चैतदेवं तथा सूत्रकृन्नानि द्वितीयाङ्गे प्रपञ्चितमिति तत एवावधार्यम्, इह तु ग्रन्थगौरवभयान्नोच्यते, 'नवे'ति नवसङ्ख्याः, मध्यमप्रस्थानापेक्षया चैतद्, अन्यथा सङ्क्षेपापेक्षया जीवाजीवयोरेव बन्धादीनामन्तर्भावसम्भवात् द्वित्व
निर्युक्तिः [५०२...]
For Fasten
~ 1122~
मोक्षमार्ग
गत्य० २८
||५६२||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
g