________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८], मूलं [-]/ गाथा ||१३|| नियुक्ति: [५०२...]
(४३)
प्रत
सूत्रांक ||१३||
उक्तं हि-"परिणामो बर्थान्तरगमनं न च सर्वथा व्यवस्थानम्। न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥१॥"
एवं छायाऽऽतपयोरपि पौद्गलिकत्वं वस्तुत्वं च भावनीयं, तथा स्पर्शनग्राबत्वाचानयोः पौगलिकत्वं, तथाहि* छायायाः शैत्यमातपस्य चोष्णत्वं प्रतिपाणि प्रतीतमेवेति, अतश्च यत्कैश्चिदुच्यते-शब्दोऽम्बरगुण इत्यादि, तदपास्त
भवति, उक्तश्च-"अणवः सर्वशक्तित्वाञदसंसर्गवृत्तयः। छायाऽऽतपस्तमः शब्दभावेन परिणामिनः ॥१॥" इत्यादि, वर्णादीनां च पौगलिकत्वं सुप्रसिद्धमेवेति सूत्रचतुष्टयार्थः । अनेन द्रव्यलक्षणमुक्तं. पर्यायलक्षणमाह
एगत्तं च पुत्तं च, संखा संठाणमेव य । संजोगा य विभागा य, पजवाणं तु लक्वर्ण ॥ १३ ॥ एकस्य भावः एकत्वं-भिन्नेष्वपि परमाण्वादिषु यदेकोऽयं घटादिरिति प्रतीतिहेतुः सामान्यपरिणतिरूपं, चशब्द उत्तरापेक्षया समुच्चये,पृथग्भावः पृथक्त्वम्-अयमस्मात्पृथगिति प्रत्ययोपनिबन्धनं, 'चः' सर्वत्र प्राग्वत् ,संख्यानं ट्र सङ्ख्या-यत एको द्वौ त्रय इत्यादिका प्रतीतिरुपजायते, संतिष्ठतेऽनेनाकारविशेषेण वस्त्विति संस्थानं-परिमण्ड
लोऽयमित्यादिबुद्धिनिबन्धनम् , एवेति पूरणे, 'संयोगाः' अयमङ्गुल्योः संयोग इत्यादिव्यपदेशहेतवः, 'विभागाश्च' अयमितो विभक्त इति बुद्धिहेतवः, उभयत्र सम्बन्धिभेदेन भेदमाश्रित्य बहुवचननिर्देशः, चशब्दोऽनुक्तनवपुराणत्वादिपर्यायोपलक्षकः, 'पर्यवाणाम्' उक्तनिरुक्तानां, 'तुः' पूरणे 'लक्षणम्' असाधारणरूपम्, अयमभिप्राय:-यः कश्चिदस्खलितप्रत्ययः स सर्वः सनिवन्धनो, यथा घटादिप्रत्ययः, अस्खलितप्रत्ययाश्चामी एकोऽयमित्यादिप्रत्ययाः,
दीप अनुक्रम [१०८८]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1121~