SearchBrowseAboutContactDonate
Page Preview
Page 1118
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥९-१२|| दीप अनुक्रम [१०८४ -१०८७] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||९-१२ || निर्युक्ति: [५०२...] Education intol अध्ययनं [२८], सोऽप्येवं वक्तव्यः यथा-भवतः कथं वाह्यार्थसंसिद्धिः १ न हि कदाचिदसौ प्रत्यक्षगोचरः, साकारज्ञानवादिनः सदा तदाकारस्यैव संवेदनात्, तथा च तस्याप्यनुपलभ्यमानत्वादभाव एव, अथाकारसंवेदनेऽपि तत्कारणमर्थः परिकल्प्यते, धूमज्ञान इवाशिः, एवं सति स्थितिदर्शनेऽपि किं न तत्कारणस्याधर्मास्तिकायस्य निश्चयः १, अथायमप्यभि - दधीत न कदाचिदसौ तत्कारणत्वेनेक्षित इति, ननु वाह्यार्थेऽपि तुल्यमेतत्, न हि सोऽपि तदाकारकारितया | कदाचिदवलोकितः, अथ मनस्कारस्य चिद्रूपतायामेव व्यापारो न तु नियता (त) कारणत्वे, अतस्तत्रार्थः कारणं कल्प्यते, एवं तर्हि जीवपुलो परिणाममात्र एव कारणं, स्थितिपरिणती पुनरधर्मास्तिकायोऽपेक्षाकारणत्वेन व्याप्रियत इति किं न कल्प्यते १, अथासौ सर्वदा सर्वस्य सन्निहित इत्यनियमेन स्थितिकारणं भवेत्, नन्वेवमर्थोऽपि किं सन्निहित इत्येव खाकारमर्पयति ?, अथ चक्षुरादिव्यापारमयमपेक्षते, अधर्मास्तिकायोऽपि तर्हि खपरगतौ विश्रसाप्रयोगावपेक्षत इति नानयोर्विशेषमुत्पश्यामः, तथा 'भाजनम्' आधारः 'सर्वद्रव्याणां' जीवादीनां 'नमः' आकाशम्, अबगाह :- अवकाशस्तल्लक्षणमस्येत्यवगाहलक्षणं तद्ध्यवगाढुं प्रवृतानामालम्बनीभवति, अनेनावगाहकारणत्वमाकाशस्योक्तं, न चास्य तत्कारणत्वमसिद्धं यतो यद्यदन्वयव्यतिरेकानुविधायि तत्तत्कार्य, यथा चक्षुराद्यन्वयव्यतिरेकानुविधायि रूपादिविज्ञानम्, आकाशान्वयव्यतिरेकानुविधायी चावगाहः, तथाहि शुषिररूपमाकाशं, तत्रैव चावगाहो, न तु तद्विपरीते पुद्गलादी, अथैवमलोकाकाशेऽपि कथं नावगाहः १, उच्यते, स्वादेवं यदि कश्चिदवगाहिता भवेत्, Forest Use Only www.janbay.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः ~ 1117 ~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy