________________
आगम
(४३)
प्रत
सूत्रांक
||९-१४||
दीप
अनुक्रम
[१०६७
-१०७२]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [ - ] / गाथा ||९-१४||
निर्युक्ति: [४९५...]
Education intemational
अध्ययनं [२७],
न सा-श्राविका मा प्रत्यभिजानाति, अप्रत्यभिज्ञानाच न वेत्ति, नैव सा मां दास्यति विवक्षितमौषधादीति गम्यते । | इति हेतुहेतुमद्भावेन व्याख्येयं स्वतन्त्रतया वा न सा मां विजानाति, नापि सा मयं दास्यतीत्याह यदिवा निर्गता | गृहादिदानीं सा भविष्यतीति मन्ये इति वक्ति, अथवा साधुः 'अन्यः' मद्यतिरिक्तः 'अत्र' विवक्षितप्रयोजने त्रजतु, किमहमेवैकः साधुरस्मीत्यभिधत्ते । अन्यच 'प्रेषिताः' क्वचित्तथाविधप्रयोजने प्रस्थापिताः 'पलिउंचंति'ति तत्प्रयोजनानिष्पादने पृष्टाः सन्तोऽपहुवते - क वयमुक्ताः १, गता वा तत्र वयं, न त्वसौ दृष्टेति, पठ्यते च- 'पोसिया पलिउं |चंति' पोषिताः- आहारोपकरणादिना श्रुतादिना च पुष्टिं नीता अपह्नवते यथा किमस्माकं गुरुभिः कृतमित्यपलपन्ति 'ते' दुःशिष्याः 'परियंति' पर्यटन्ति 'समन्ततः' सर्वासु दिक्षु, न गुरुसन्निधौ कदाचिदासते, मा कदाचिदेषां किञ्चित्कृत्यं भविष्यतीति, कथञ्चित्संनिधाने वा कर्त्तुं प्रवृत्तौ 'राजवेष्टिमिव' नृपतिहठप्रवर्त्तितकृत्यमिव 'मन्यमानाः' मनस्यवधारयन्तः कुर्वन्ति 'भ्रकुटीम्' आवेशवशकृत भ्रूत्क्षेपरूपां 'मुखे' वक्रे, अत्यन्तदुष्टताख्यापकमेतत् तदन्यवपुर्विकारोपलक्षणं च । अपरञ्च- 'वाचिताः' शास्त्राणि पाठिताः, उपलक्षणत्वात्तदर्थं च ग्राहिताः, किमाचार्यान्तरसत्का एव सन्त उतान्यथेत्याह- 'संगृहीताः परिगृहीताश्चशब्दाद् दीक्षिता उपस्थिताश्च स्वयमिति गम्यते, एवेति पूरणे, 'भक्तपानेन' च सुखिग्धमधुरादिना, सूत्रे च सुब्व्यत्ययात्तृतीयार्थे सप्तमी, 'पोषिताः' उपचितीकृताः, तथाऽपि 'जातपक्षाः' उत्पन्नपतत्रा यथा हंसाः प्रकर्षेण - अतिविप्रकृष्टदेशान्तरगमनलक्षणेन क्रामन्ति गच्छन्ति प्रक्रामन्ति 'दिसोदिसिं ति
Forest Use Only
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
~1103~