________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं २७],
मूलं [-1 / गाथा ||१|| नियुक्ति: [४९५...]
(४३)
प्रत
सूत्रांक ||१||
धेरे गणहरे गग्गे, मुणी आसि विसारए । आइन्ने गणिभावम्मि, समाहिं पडिसंधए ॥१॥ धर्मेऽस्थिरान् स्थिरीकरोतीति स्थविरः, उक्तं हि-"घिरकरणा पुण थेरो" गणं-गुणसमूहं धारयति-आत्मन्यवस्थापयतीति गणधरः 'गार्यः' गर्गसगोत्रः तथा मुणिति-प्रतिजानीते सर्वसावद्यविरतिमिति मुनिः 'आसीत्, अभूत् 'विशारदः' कुशलः सर्वशास्त्रेषु सङ्ग्रहोपग्रहयो, 'आकीर्णः' आचार्यगुणैराचारश्रुतसम्पदादिभिर्व्याप्तः। परिपूर्ण इतियावत् , 'गणिभावे' आचार्यत्वे स्थित इति गम्यते, 'समाहिं पडिसंधए'त्ति समाधानं समाधिः, सच |द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यसमाधिर्यदुपयोगात्खास्थ्यं भवति, यथा(वा) पयःशर्करादिद्रव्याणां परस्परमवि|रोधः, भावसमाधिस्तु ज्ञानादीनि, तदुपयोगादेवानुपमखास्थ्ययोगात्, तत्रेह भावसमाधिर्पयते, ततः समाधि 'प्रतिसंधत्ते' कर्मोदयात् त्रुटितमपि संघट्टयति, तथाविधशिष्याणामिति गम्यते इति सूत्रार्थः॥ समाधि च प्रतिसंदघद्यथाऽसौ शिष्येभ्य उपदिशति तथाऽऽह
घहणे वहमाणस्स, कंतारं अइवत्तए । जोए वहमाणस्स, संसारो अइवत्तए ॥२॥ उद्यतेऽनेन वोढव्यमिति वहनं-शकटादिस्तस्मिन् योजितस्येति गम्यते, 'वहमानस' सम्यक्प्रवर्त्तमानस्योत्तरत्र खलुकग्रहणादिह विनीतगवादेरिति गम्यते, अतिक्रम्यातिक्रमणसम्बन्धे पष्ठी, वाहकाविनाभूतत्वाचास वाहकस्य १ खिरकरणात्पुनः स्थविरः
दीप अनुक्रम [१०५९]
ainatorary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिरि-विरचिता वृत्तिः
~ 1097~