________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२६], मूलं [-1 / गाथा ||३८-५१|| नियुक्ति : [४८६...]
(४३)
प्रत
सूत्रांक
||३८-५१||
नवरं पुनरभिधानमस्य पुनः पुनरुपदेष्टव्यमेव गुरुभिर्न प्रयासो मन्तव्य इति ख्यापनार्थम् । कथं पुनश्चतुर्थपौरुष्यां खाध्यायं कुर्यादित्याह-पौरुष्यां चतुर्थी 'कालं' पैरात्रिकं 'तुः पूरणे 'पडिलेहिय'त्ति प्रत्युपेक्ष्य-प्रतिजागर्य प्राग्वद् | गृहीत्वा च खाध्यायं ततः कुर्यात् 'अबोधयन्' अनुत्थापयन् 'असंयतान्' अगारिणः, तदुत्थापने तत्पापस्थानेषु तेषां प्रवर्तनसम्भवात् । पौरुष्याः प्रक्रमाचतुर्थ्याश्चतुर्भागेऽवशिष्यमाण इति शेषः, तत्र हि कालवेलायाः सम्भव इति न कालस्य ग्रहणं, वन्दित्वा ततो गुरुं प्रतिक्रम्य 'कालस्य' वैरात्रिकस्य 'कालं' प्राभातिकं, तुशब्दो वक्ष्यमाणविशेषद्योतकः, 'पडिलेहए'त्ति प्रत्युपेक्षेत प्राग्वद् गृह्णीयाच, रह च साक्षात्प्रत्युपेक्षणस्यैव पुनः पुनरभिधानं बहुतरविषयत्वात् , अत्र च सम्प्रदायः-"ताहे गुरू उहित्ता गुणंति जाव चरिमो जामो पत्तो, चरिमे जामे सचे उद्वित्ता वरत्तियं घेत्तुं सज्झायं करेंति, ताहे गुरू सुवंति, पत्ते पाभाइए काले जो पाभाइयकालं घेच्छति सो कालस्स पडिकमिउं पाभाइयं कालं गिण्हइ, सेसा कालवेलाए कालस्स पडिकमंति, तओ आवस्सयं कुणंति " मध्यमप्रक्रमापेक्षं च कालत्रयग्रहणमुक्तम् , अन्यथा युत्सर्गत उत्कर्षेण चत्वारो जघन्येन त्रयः काला अपवादतश्चोत्कर्षेण द्वी
१ तदा गुरव उत्थाय गुणयन्ति यावच्चरमो यामः प्राप्तः, चरमे यामे सर्वे उत्थाय वैरात्रिक गृहीत्वा खाध्यायं कुर्वन्ति, तदा गुरवः |स्वपन्ति, प्राप्ते प्राभातिके काले यः प्राभातिककालं ग्रहीष्यति स कालस्य प्रतिक्रम्य प्राभातिकं कालं गृहाति, शेषाः कालवेलायां कालस्य प्रतिकाम्यन्ति, तत आवश्यकं कुर्वन्ति ।
दीप अनुक्रम [१०४४-] -१०५७]]
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1089~