________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२६], मूलं [-1 / गाथा ||३८-५१|| नियुक्ति: [४८६...]
(४३)
प्रत
सामाचा| र्यध्ययन
॥५४५॥
सूत्रांक ||३८
२६
-५१||
उत्तराध्य. रस्य लोपे देवसिक 'चः' पूरणे 'अतिचारम्' अतिक्रमं 'चिन्तयेत्' ध्यायेत् 'अणुपुचसो'त्ति आनुपूर्व्या-क्रमेण, बाद प्रभातमुखवत्रिकाप्रत्युपेक्षणातो यावदयमेव कायोत्सर्गः, उक्तं हि-"गोसमुहणंतगाई आलोइय देसिए य अइयारे ।
सवे समाणयित्ता हियए दोसे ठविजाह॥१॥" फिविषयमतीचारं चिन्तयेदित्याह-'ज्ञाने' ज्ञानविषयमेवं दर्शने |चैव चारित्रे तथैव च । पारितः-समापितः कायोत्सर्गों येन स तथा यन्दित्वा प्रस्तावाद् द्वादशावर्त्तवन्दनेन 'तत' इत्यतीचारचिन्तनादनन्तरं 'गुरुम्' आचार्यादि 'देसिय'ति प्राग्वद् दैवसिकं 'तुः' पूरणेऽतीचारम् 'आलोचयेत्' प्रकाशयेद् गुरूणामेव 'यथाक्रमम्' आलोचनसेवनान्यतरानुलोम्यक्रमानतिक्रमेण 'प्रतिक्रम्य' प्रतीपमपराधस्थानेभ्यो निवृत्य, प्रतिक्रमणं च मनसा भावशुद्धितो वाचा तत्सूत्रपाठतः कायेनोत्तमाजनमनादिता, 'निःशल्यः' माया| दिशल्यरहितः, सूचकत्वात्सूत्रस्य बन्दनकपूर्व क्षमयित्वा च वन्दित्वा द्वादशावर्त्तवन्दनेन 'ततः' इत्युक्तविघेरनन्तरं | 'गुरुम्' आचार्यादिकं कायोत्सर्ग' चारित्रदर्शनश्रुतज्ञानशुद्धिनिमित्तव्युत्सर्गत्रयलक्षणं, जातावेकवचनं, 'ततः' गुरुवन्दनादनन्तरं कुर्यात्सर्वदुःखविमोक्षणम् । 'पारिये' त्यादि पूर्वाद्ध व्याख्यातमेव, स्तुतिमालं च सिद्धस्तवरूपं कृत्वा पाठान्तरं वा-'सिद्धाणं संथवं किच्चति सुगम, 'कालम्' आगमप्रतीतं 'संपडिलेहए'त्ति संप्रत्युपेक्षते, कोऽर्थःप्रतिजागर्ति, उपलक्षणत्वाद् गृह्णाति च, एतद्गतश्च विधिरागमादवसेयः । 'पढम मित्यादि प्राग्वद्, व्याख्यातमेव,
१ प्राभातिकमुखबस्त्रिकादिप्रत्युपेक्षणाया आलोच्य दैयसिकांश्चातिचारान् । सर्वे संमान्य हृदये दोषान् स्थापयेत् ॥ १ ॥
SRAEXMOST
दीप अनुक्रम [१०४४-] -१०५७]]
५४५॥
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1088~