________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२६], मूलं [--1 / गाथा ||२१-३७|| नियुक्ति: [४८६...]
(४३)
प्रत
सूत्रांक
K-RSSC
||२१-३७||
जनं वा कुर्वतो वखं वपुर्वा यथा नर्तितं न भवति 'अवलितं यथाऽऽत्मनो वखस्य च वलितमिति मोटनं न भवति 'अणाणुबंधि'न्ति 'अननुबन्धि' अनुबन्धेन-नैरन्तर्यलक्षणेन युक्तमनुबन्धि न तथा, कोऽर्थः ?-अलक्ष्यमाणविभागं| यथा न भवति, 'आमोसलिन्ति सूत्रत्वादामर्शवत्तिर्यगूलमधो या कुड्यादिपरामर्शवद्यथा न भवति, उक्तं हि"तिरिउहहघट्टणाऽऽमुसलि"ति, तथा किमित्याह-'छप्पुरिमत्ति षट्र पूर्वाः पूर्व क्रियमाणतया तिर्यकृतवस्त्रप्रस्फोटनात्मका क्रियाविशेषा येषु ते पहपूर्वाः, 'नवखोड'त्ति खोटकाः समयप्रसिद्धाः स्फोटचात्मकाः कर्तव्या इति शेषः 'पाणी' पाणितले 'प्राणिनां' कुन्थ्वादिसत्त्वानां विशोधनं पाठान्तरतश्च-'प्रमार्जनं' प्रस्फोटनं त्रिकत्रिकोत्तरकालं त्रिकत्रिकसङ्ख्यं पाणिप्राणिविशोधनं पाणिप्राणिप्रमार्जनं वा कर्तव्यं । प्रतिलेखनादोषपरिहारार्थमाहआरभटा विपरीतकरणमुच्यते त्वरितं वाऽन्यान्यवस्खग्रहणेनासौ भवति, उक्तं हि-"वितहकरणमारभडा तुरियं वा अन्नमनगहणेणं" संमर्दनं समर्दा रूढित्वात्स्त्रीलिङ्गता वस्त्रान्तःकोणसंचलनमुपधेर्वा उपरि निषदनम् , उक्तश्च"अंतो व होज कोणा णिसियण तत्थेव सम्महा" वर्जयितव्येति सर्वत्र संबध्यते, 'चः' पूरणे 'मोसलितिर तिर्यगूर्ध्वमधो वा घट्टना तृतीया, 'प्रस्फोटना' प्रकर्षण रेणुगुण्डितस्येव वस्त्रस्य झाटना चतुर्थी, विक्षेपणं विक्षिसा
१ तिर्यगूलमधी घटनाऽमोसलिरिति २ वितयकरणं आरभटा त्वरितं था अन्याऽन्यग्रहणेन ३ अन्तर्वा भवेयुः कोणा निषीदनं तत्रैव संमर्दा
दीप अनुक्रम [१०२७-] -१०४३]]
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1079~