________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं २५], मूलं [-1 / गाथा ||१६-३३|| नियुक्ति: [४७०...]
(४३)
प्रत
सूत्रांक
||१६-३३||
सातैरेव वृद्धिं नीयमानतया तन्मध्योत्पन्नोऽपि यस्तं वयं ब्रूमो ब्राह्मणं, तथा च तत्राप्यभिधायि-"यदा सर्व परित्यज्य, निस्सको निष्परिग्रहः । निश्चिन्तश्च चरेद्धर्म, अब सम्पद्यते तदा ॥१॥" इति । इत्थं मूलगुणयोगाचात्त्विकं ब्राह्मणमभिधायोत्तरगुणयोगतस्तमेवाह-(ग्रन्थानम् १३०००) 'अलोलुपम्' आहारादिष्यलम्पर्ट 'मुहाजीवित्ति सुब्व्यत्ययात् 'मुधाजीविनम्' अज्ञातोञ्छमात्रवृत्ति, पठ्यते च-'मुहाजीवित्ति अनगारमकिञ्चनं प्राग्वत् 'असंसक्तम्' असंबद्धं, कैः-गृहस्थैः, तृतीयार्थे सप्तमी विषयसप्तमी वा, अनेन काका पिण्डविशुद्धिरूपोत्तरगुणयुक्तत्वमुक्तं, 'तम्' उक्तगुणयुक्तमप्येवंविधं सन्तं वयं ब्रूमो ब्राह्मणं, कचित् पठ्यते च-'जहित्ता पुवसंजोगं, पाइसंगे य बंधवे । जो न सजइ भोएहि, तं वयं बूम बंभणं ॥' अत्र 'पूर्वसंयोग' मात्रादिसम्बन्धं 'ज्ञातिसंयोगान्' खस्रादिसम्बन्धान, चशब्दो भिन्नक्रमस्ततः 'बान्धवांश्च' भ्रात्रादीन् , शेषं स्पष्टम् , अनेन चातिनिःस्पृहताभिधानेनोत्तरगुणा अप्याक्षिप्ता भवन्ति । स्यादेतद्-वेदाध्ययनं यजनं च भवात्राय कमिति तद्योगादेव पात्रभूतो ब्राह्मणो न तु यथा त्वयोक्त इत्याशल्याह-पशूनां छागानां बन्धो-विनाशाय नियमनं हेतुभिस्तेऽमी पशुवधाः 'वेतं छागमालभेत वायव्यां। दिशि भूतिकाम' इत्यादिवाक्योपलक्षिताः, पाठान्तरतः पशवो बद्धा यैस्ते आहिताग्न्यादेराकृतिगणत्वात् क्तान्तस्य परनिपाते पशुवद्धाः, न तु ये.'आत्मा वारे ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः' इत्यादिवाक्योपलक्षिताः सर्ववेदाः | ऋग्वेदादयः 'जट्ट'ति इष्टं यजनं 'वा' समुच्चये 'पापकर्मणा' पापहेतुभूतपशुबन्धाद्यनुष्ठानेन तु हरिकेशीयाध्ययनोक्त
दीप अनुक्रम [९७८-९९५]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1054~