________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:) अध्ययनं २५], मूलं [-1 / गाथा ||१६-३३|| नियुक्ति: [४७०...]
(४३)
सत्तराध्य.
प्रत
यज्ञीयाध्यय, २५
बृहद्वृत्तिः
सूत्रांक
॥५२८॥
||१६-३३||
विधिनेतिभावः, किमित्याह-'न' नैव 'त'मिति प्रक्रमाद्वेदाध्येतारं यशारं वा 'त्रायन्ते' रक्षन्ति भवादिति गम्यते, किंविशिष्टं ?–'दुःशीलं' ताभ्यामेव हिंसादिप्रवर्त्तनेन दुराचारं, किमिति ?-यतः 'कर्माणि' ज्ञानावरणादीनि 'बल-1 चन्ति' दुर्गतिनयनं प्रति समर्थानि 'इहेति भवदवगमविषये वेदाध्ययने यजने च भवन्तीति गम्यते, पशुबन्धादिप्रवर्तनेन तयोस्तद्बलायकत्वादिति भावः, अनेन दुर्गतिहेतुत्वात्स्वर्गहेतुत्वमप्यनयोः प्रत्युक्तम्, उक्तं हि-"यूपं छित्त्वा पशुं हत्वा, कृत्या रुधिरकर्दमम् । यद्येवं प्राप्यते स्वर्गो, नरके केन गम्यते ? ॥१॥" अतो नैतद्योगाद्राह्मणः पात्रभूतो भवति, किन्त्वनन्तराभिहितगुण एवेति भावः । अन्यच्च-नेति निषेधे 'अपिः' पूरणे 'मुण्डितेन' केशापनयनात्मकेन समं मनोऽस्येति निरुक्तविधिना श्रमणः-निर्ग्रन्थः, 'न' नैव ॐकारो (रेणो)पलक्षणत्वाद् 'ॐभूर्भुवःस्ख'रित्याधुचारणरूपेण ब्राह्मणः, तथा न मुनिररण्यवासेन, कुशो-दर्भविशेषस्तन्मयं चीवरं कुशचीवरं, वल्कलोपलक्षणमेतत्, तेन तापसः, अनूदितं चैतद्वाचकैः-"मुण्डनात् श्रमणो नैच, संस्काराद्राह्मणो न वा । मुनि रण्यवासित्वाद्वल्कलान्न च तापसो॥१॥" भवतीति सर्वत्र शेषः । कथममी तर्हि संभवन्तीत्याह-समतया' रागद्वेषाभावरूपया श्रमणो भवति, ब्रह्मणवरणं ब्रह्मचर्य, प्रम च द्विधा, यत उक्तम्-"वे ब्रह्मणी वेदितव्ये, शब्दब्रह्मपरं च यत् ।। शब्दब्रह्मणि निष्णातः, परं ब्रह्माधिगच्छति ॥१॥" एतानि च पराणि ब्रह्माणि बरिष्ठानि यानि प्रागहिंसादीन्युक्तानीति, एतद्रूपमेयेह ब्रह्मोच्यते, तेन ब्राह्मणो भवति, 'ज्ञानेन' हिताहितावगमरूपेण मुनिर्भवति 'तपसा'
दीप अनुक्रम [९७८-९९५]
५२८॥
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1055~