________________
आगम
(४३)
प्रत
सूत्रांक
||१६
-३३||
दीप
अनुक्रम
[९७८
-९९५]
उत्तराध्य.
बृहद्वृत्तिः
॥५२७॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||१६-३३||
अध्ययनं [२५],
Education infamational
न व्यपरोपयति 'एतान्' अनन्तरमुक्तरूपान् 'तुः' पूरणे, पठ्यते च- 'विविधेन' मनोवाक्कायरूपतया योगेनेति गम्यते, तं वयं ब्रूमो ब्राह्मणं, तथा चारण्यकेऽप्युक्तम्- "यदा न कुरुते पापं सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा, ब्रह्म सम्पद्यते तदा ॥ १ ॥” तथा क्रोधादिभ्यो मृषा न वदति यस्तु तं वयं ब्रूमो त्राह्मणम्, इह च मानस्य क्रोधो | मायायाश्च लोभ उपलक्षणं, प्रायस्तत्सहचरितत्वात्तयोः तथा च तत्राप्यवाचि - "यदा सर्वानृतं त्यक्तं मिथ्याभाषा विवर्जिता । अनवद्यं च भाषेत, ब्रहा सम्पद्यते तदा ॥ १ ॥ किञ्च - "अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि, सत्यमेव विशिष्यते ॥ १ ॥” इति 'चित्तवत्' द्विपदादि 'अचित्तं च' खर्णादि 'अल्पं वा' सङ्खया प्रमाणेन च स्तोकं यदिवा 'बहु' ताभ्यामेव प्रचुरं न गृह्णाति 'अदत्तम्' अनिसृष्टं यस्तं वयं ब्रूमो ब्राह्मणं, तथा च तत्राप्युक्तम्- "परद्रव्यं यदा रड्डा, आकुले अथवा रहे । धर्मकामो न गृह्णाति, प्रझ सम्पद्यते तदा ॥ १ ॥" अन्यचदिव्यविषयत्वाद्दिव्यं मानुषविषयत्वान्मानुषं तिर्यक्षु भवं तैरश्वमेषां समाहारो दिव्यमानुषतैरथं यो न सेवते मैथुनं 'मनसा' चित्तेन कायश्च शरीरं वाक्यं च वचनं कायवाक्यं तेन तं वयं ब्रूमो ब्राह्मणं, तथा च तत्राप्युक्तम्- "देवमानुषतिर्यक्षु, मैथुनं वर्जयेद्यदा । कामरागविरक्तश्च ब्रह्म सम्पद्यते तदा ॥ १ ॥” । अपि च-यथा 'पद्म' कमलं जले उपलक्षणत्वाज्जलमध्ये 'जातम्' उत्पन्नं तत्परित्यागत उपरि व्यवस्थानतः 'नोपलिप्यते' न लिप्यते 'वारिणा' जलेन, 'एव' मिति पद्मवत् 'अलित्त'त्ति अलिप्तः-अक्षिष्टः काम्यमानत्वात् कामैः - मनोज्ञैः शब्दादिभिरावाल्यात्
Forest Use Only
निर्युक्तिः [४७०...]
~1053~
यज्ञीया
ध्यय. २५
॥५२७॥
www.brary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः