________________
आगम
(४२)
प्रत
सूत्रांक
॥६४..॥
दीप
अनुक्रम
[४१४..]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [९], उद्देशक [-], मूलं [ १५...] / गाथा ||६४...|| निर्युक्ति: [ ३२३-३२६], भाष्यं [६२...]
La Edocanon
| भवत्येवेति गाथार्थः ॥ उपसंहरन्नाह - 'एषः' अनन्तरोदितो 'में' भवतां परिकथितो विनयः प्रतिरूपलक्षणः 'त्रिविधः' कायिकादि: 'द्विपञ्चाशद्विधिविधानम्' एतावत्मभेदमित्यर्थः 'ब्रुवते' अभिदधति तीर्थकरा 'अनाशातनाविनयं वक्ष्यमाणमिति गाथार्थः ॥ एतदेवाह - तीर्थकर सिद्धकुलगणसङ्घक्रियाधर्मज्ञानज्ञानिनां तथा आचार्यस्थविरोपाध्यायगणिनां संबन्धीनि त्रयोदश पदानि अत्र तीर्थकरसिद्धौ प्रसिद्धी, कुलं नागेन्द्रकुलादि, गणः कोटिकादिः, सङ्घः प्रतीतः क्रियाऽस्तिवादरूपा, धर्मः श्रुतधर्मादिः, ज्ञानं मत्यादि, ज्ञानिनस्तद्वन्तः, आचार्यः प्रतीतः, स्थविरः सीदतां स्थिरीकरणहेतुः, उपाध्यायः प्रतीतः, गणाधिपतिर्गणिरिति गाथार्थः ॥ एतानि त्रयोदश पदानि अनाशातनादिभिश्चतुर्भिर्गुणितानि द्विपञ्चाशद्भवन्तीत्याह- अनाशातना च तीर्थकरादीनां सर्वथा अहीलनेत्यर्थः तथा भक्तिस्तेष्वेवोचितोपचाररूपा, तथा बहुमानस्तेष्वेवान्तरभावप्रतिबन्धरूपः, तथा च वर्णसंज्वलना-तीर्थकरादीनामेव सद्भूतगुणोत्कीर्तना । एवमनेन प्रकारेण तीर्थकरादयस्त्रयोदश चतुर्गुणा अनाशातनाद्युपाधिभेदेन भवन्ति द्विपञ्चाशद्भेदा इति गाथार्थः ॥ उक्तो विनयः, साम्प्रतं समाधिरुच्यते, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिसमाधिमाह—
दुब्वं जेण व दुब्वेण समाही आहिअं च जं दव्वं । भावसमाहि चडश्विह दंसणनाणे तवचरिते ।। ३२७ ॥ व्याख्या- 'द्रव्य मिति द्रव्यमेव समाधिः द्रव्यसमाधिः यथा मात्रकम् अविरोधि वा क्षीरगुडादि तथा येन वा द्रव्येणोपयुक्तेन समाधित्रिफलादिना तद् द्रव्यसमाधिरिति । तथा आहितं वा यद्रव्यं समतां करोति
Far P&Personality
मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ४२ ], मूल सूत्र [३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः समाधे: द्रव्यादि भेदाः कथयते
~ 486~