________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्तिः ) अध्ययनं [१], उद्देशक -], मूलं [१५...] / गाथा ||६४...|| नियुक्ति: [३१४-३२२], भाष्यं [६२...]
(४२)
प्रत सूत्रांक ||६४..||
व्यासार्थे दर्शनविनयमाह-'द्रव्याणां धर्मास्तिकायादीनां 'सर्वभावाः' सर्वपर्याया: 'उपदिष्टाः कथिता 'ये' अगुरुलध्यादयो 'या' येन प्रकारण जिनवरैः' तीर्थकरैः 'तान् भावान् 'तथा' तेन प्रकारेण श्रद्धसे | नर, प्रधानन्य कर्म विनयति यस्मादर्शनविनयो भवति तस्माद, दर्शनाद्विनयो दर्शनविनय इति गाथार्थ ज्ञानविनयमाह-'ज्ञानं शिक्षति' अपूर्व ज्ञानमादत्ते, 'ज्ञानं गुणयति' गृहीतं सत्प्रत्यावर्तपति, ज्ञानेन करोति कृत्यानि' संयमकृत्यानि, एवं ज्ञानी नवं कर्म न बनाति प्राक्तनं च विनयति यस्मात् 'ज्ञानविनीतों ज्ञानेनापनीतकर्मा भवति तस्मादिति गाथार्थः॥ चारित्रविनयमाह-'अष्टविधम्' अष्टप्रकारं 'कर्मचय' कर्मसंघातं प्रागवद्धं यस्माद् 'रिक्तं करोति' तुच्छतापादनेनापनयति 'यतमानः' क्रियायां यत्नपर तथा नवमन्यं च कर्मचयं न बनाति यस्मात् 'चारित्रविनय' इति चारित्राद्विनयश्चारित्रविनयः चारित्रेण विनीतकर्मा भवति तस्मादिति गाथार्थः ॥ तपोविनयमाह-अपनयति तपसा तमः' अज्ञानम् उपनयति च खर्ग मोक्षम् 'आत्मानं जीवं तपोविनयनिश्चयमतिः, यस्मादेवंविधस्तपोविनीतो भवति तस्मादिति गाथार्थः॥ उपचारविनयमाह-अधौपचारिकः पुनर्द्विविधो विनयः समासतो भवति, द्वैविध्यमेवाह-प्रतिरूपयोगयोजनं।
तथाऽनाशातनाविनय इति गाथासमासार्थः॥ व्यासार्थमाह-प्रतिरूप' उचितः खलु विनयस्त्रिविधः, डाकापयोगे च वाचि मानस' कायिको वाचिको मानसश्च, अष्टचतुर्विधद्विविधा, कायिकोऽष्टविधः वाचिक-1X
चतुर्विधः मानसो द्विविधः। प्ररूपणा तस्य कायिकाष्टविधादेरियं भवति वक्ष्यमाणलक्षणेति गाथार्थः॥
दीप अनुक्रम [४१४..]
68BS
दवा०४१
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~484~