________________
आगम
(४२)
प्रत
सूत्रांक/
गाथांक
||||
दीप
अनुक्रम [१]
भाष्यं [-]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||१॥ निर्युक्ति: [४०], आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
मुनि दीपरत्नसागरेण संकलित
धर्मधर्मिणोः कथञ्चिदभेदाद् द्रव्यधर्ममाह, तथास्तिकाय इत्यनेन तु सूचनात् सूत्रमितिकृत्वा उपलक्षणत्वादवयव एव समुदायशब्दोपचारादस्तिकायधर्म इति, प्रचारधर्मश्चेत्यनेन ग्रन्थेन द्रव्यधर्मदेशमाह। भावधर्मश्चेत्यनेन तु भावधर्मस्य स्वरूपमाह ॥ साम्प्रतं प्रथमोद्दिष्टद्रव्यधर्मखरूपाभिधित्सयाऽऽह-द्रव्यस्य पर्याया-ये उत्पादविगमादयस्ते धर्मास्तस्य द्रव्यस्य ततश्च द्रव्यस्य धर्मा द्रव्यधर्मा इत्यन्यासंस कैकद्रव्यधर्माभावप्रदर्शनार्थी बहुवचननिर्देश इति गाथार्थः ॥ इदानीमस्तिकायादिधर्मस्वरूपप्रतिपिपादयिषयाऽऽह
धम्मथिकायधम्मो पयारधम्मो य विसयधम्मो य । लोइयकुप्पावयणिअ लोगुत्तर लोगऽणेगविहो ॥ ४१ ॥ व्याख्या - धर्मग्रहणाद् धर्मास्तिकायपरिग्रहः, ततञ्च धर्मास्तिकाय एव गत्युपष्टम्भकोऽसंख्येयप्रदेशात्मकः अस्तिकायधर्म इति । अन्ये तु व्याचक्षते - धर्मास्तिकायादिखभावोऽस्तिकायधर्म इति एतच्चायुक्तम्, तत्र ध मस्तिकायादीनां द्रव्यत्वेन तस्य द्रव्यधर्माव्यतिरेकादिति । तथा प्रचारधर्मश्च विषयधर्म एवं तुशब्दस्यैवकारार्थत्वात्, तत्र प्रचरणं प्रचारः, प्रकर्षगमनमित्यर्थः, स एवात्मस्वभावत्वाद्धर्मः प्रचारंधर्मः, स च किम् ? - विषीदन्त्येतेषु प्राणिन इति विषया-रूपादयस्तद्धर्म एव, तथा च वस्तुतो विषयधर्म एवायं यद्रागादिमान सत्त्वस्तेषु प्रवर्त्तत इति, चक्षुरादीन्द्रियवशतो रूपादिषु प्रवृत्तिः प्रचारधर्म इति हृदयम्, प्रधानसंसारनिवन्धनत्वेन चास्य प्राधान्यख्यापनार्थे द्रव्यधर्मात् पृथगुपन्यासः । इदानीं भावधर्मः, स च लौकिकादिभेदभिन्न १ देसि पंचविधम्मो णाम सम्भावो लक्खणंति एगडा इति चूर्णिः २ जो जस्स इंदिअस्स बिसओ इति चूर्षिः
Ja Education ematena
Forane & Personal Use City
~46~
www.brary dig