________________
आगम
(४२)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः)
अध्ययनं [-],
उद्देशक [-]
भाष्यं [-]
मूलं [-],
निर्युक्ति: [३७],
मुनि दीपरत्नसागरेण संकलित
आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
भवारिस फासण निरुत्ती ॥ २ ॥ अस्य च द्वारगाथाद्वयस्य समुदायार्थोऽवयवार्थश्वावश्यकविशेषविवरणादेवावसेय इति । प्रकृतयोजना पुनस्तीर्थकरोपोद्घातमभिधायार्यसुधर्मस्य च तत्प्रवचनस्य पञ्चाज्जम्बूनानस्ततः प्रभवस्य ततोऽप्यार्यशय्यम्भवस्य पुनर्यथा तेनेदं निर्व्यूढमिति तथा कथनेन कार्या इति । आह् च "जेण व जं च पहुंचे" त्यादिना यत्पूर्वमुक्तं तदत्रैव क्रमप्राप्ताभिधानत्वात् तत्रायुक्तमिति, न, अपान्तरालोपोद्घातप्रतिपादकत्वेन तत्राप्युपयोगित्वादिति, आह-एवमपि महासम्बन्धपूर्वकत्वादपान्तरालोपोद्घातस्यान्त्रैवाभिधानं न्याय्यमिति, न, प्रस्तुतशास्त्रान्तरङ्गत्वेन तत्राप्युपयोगित्वादिति कृतं प्रसङ्गेन, अक्षरगमनिकामात्र फलत्वात्प्रयासस्य । गत उपोद्घातनिर्युक्त्यनुगमः, साम्प्रतं सूत्रस्पर्शिकनिर्युक्त्यनुगमावसरः, स च सूत्रे सति भवति, आहयद्येवमिहोपन्यासोऽनर्थकः, न, निर्युक्तिसामान्यादिति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त एव, इह चास्व| लितादिप्रकारं शुद्धं सूत्रमुचारणीयम्, तद्यथा-अस्खलितममिलितमव्यत्याग्रेडितमित्यादि यथाऽनुयोगद्वारेषु, ततस्तस्मिनुचरिते सति केषाञ्चिद्भगवतां साधूनां केचनार्थाधिकारा अधिगता भवन्ति केचन त्वनधिगताः, तत्रानधिगताधिगमायाल्पमतिविनेयानुग्रहाय च प्रतिपदं व्याख्येयम् । व्याख्यालक्षणं चेदम्-संहिता च पर्द चैव पदार्थः पदविग्रहः । चालनाप्रत्यवस्थानं, व्याख्या तत्रस्य षड़िधा ॥ १ ॥ इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः । किं च प्रकृतम् ?, सूत्रानुगमे सूत्रमुच्चारणीयमिति, तचेदं सूत्रम्
१ व आकर्षः स्पर्धाना निरुक्तिः ॥ २ ॥ २षु धर्मः सुधर्मः कार्यः सुधर्मो यस्येति आर्यधर्मास्येति विगृह्य कार्य, धर्मस्य केवलस्योत्तरपदत्वाभावात् परमधर्म इतिचत् न समासान्तप्रसङ्गः न चैवं समासान्ता नित्यत्व कल्पना गौरवम पि.
Forte & Personal Use City
~42~
+9
brary dig