________________
आगम
(४२)
प्रत
सूत्रांक
||ε6..||
दीप
अनुक्रम
[२९३..]
Ja Education in
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [७], उद्देशक [-] मूलं [ १५...] / गाथा ||६८...|| निर्युक्ति: [ २७५], भाष्यं [६२...]
तद्विषया सत्यामृषा यथा कस्मिंश्चित् प्रयोजने त्वरयन् प्रहरमात्र एव मध्याह्न इत्याह । एवं मिश्रशब्दः प्रत्येकमभिसंबध्यत इति गाथार्थः । उक्ता सत्यामृषा, साम्प्रतमसत्यामृषामाह
आमंतणि आणवणी जायणि तह पुच्छणी अ पनवणी । पञ्चक्खाणी भासा भासा इच्छानुलोमा अ ॥ २७६ ॥ व्याख्या - आमन्त्रणी यथा हे देवदत्त इत्यादि, एषा किलाप्रवर्तकत्वात्सत्यादिभाषात्रयलक्षणवियोगतस्तथाविधदलोत्पत्तेरसत्यामृषेति, एवमाज्ञापनी यथेदं कुरु, इयमपि तस्य करणाकरणभावतः परमार्थेनैकत्राप्यनियमात्तथाप्रतीतेः अदुष्टविवक्षाप्रसृतत्वादसत्यामृषेति, एवं स्वबुद्ध्याऽन्यत्रापि भावना कार्येति । याचनी यथा भिक्षां प्रयच्छेति, तथा प्रच्छनी यथा कथमेतदिति, प्रज्ञापनी यथा हिंसाप्रवृत्तो दुःखितादिर्भवति, प्र| व्याख्यानी भाषा यथाऽदित्सेति भाषा, इच्छानुलोमा च यथा केनचित्कश्चिदुक्तः साधुसकाशं गच्छाम इति, स आह-शोभनमिदमिति गाथार्थः ॥
अभिग्गहि भासा भासा अ अभिग्गमि बोद्धव्वा । संसयकरणी भासा वायड अध्वायडा चेव || २७७ ॥ व्याख्या अनभिगृहीता भाषा अर्थमनभिगृह्य योच्यते डित्थादिवत्, भाषा चाभिग्रहे बोद्धव्या-अर्थमभिगृह्य योच्यते घटादिवत्, तथा संशयकरणी च भाषा-अनेकार्थसाधारणा योच्यते सैन्धवमित्यादिवत्, व्याकृता स्पष्टा प्रकटार्था देवदत्तस्यैष भ्रातेत्यादिवत्, अव्याकृता चैव- अस्पष्टाऽप्रकटार्था बालकादीनां धपनि| केत्यादिवदिति गाथार्थः ॥ उक्ता असत्यामृषा, साम्प्रतमोघत एवास्याः प्रविभागमाह
For P&Personal Use City
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र - [३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
~ 422 ~