SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||&6..|| दीप अनुक्रम [२९३..] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [७], उद्देशक [-], मूलं [ १५...] / गाथा ||६८...|| निर्युक्ति: [ २७४], भाष्यं [ ६२...] दशवैका ० हारि-वृत्तिः ॥ २०९ ॥ Edocanon in उपपन्नविगयमीसग जीवमजीवे अ जीवअज्जीवे । वहणंतमीसग खलु परित्त अद्धा अ अद्धद्धा ।। २७५ ॥ व्याख्या- 'उत्पन्नविगतमिश्र के ति उत्पन्नविषया सत्यामृषा यथैकं नगरमधिकृत्यास्मिन्नद्य दश दारका उत्पन्ना इत्यभिदधतस्तन्यूनाधिकभावे, व्यवहारतोऽस्याः सत्यामुषात्वात् श्वस्ते शतं दास्यामि इत्यभिधाय पञ्चाशत्स्वपि दत्तेषु लोके मृषात्वादर्शनात्, अनुत्पन्नेष्वेवादत्तेष्वेव (च) मृषात्वसिद्धेः, सर्वथा क्रियाभावेन स|र्वथा व्यत्ययादित्येवं विगतादिष्वपि भावनीयमिति, तथाच विगतविषया सत्यामृषा यथैकं ग्राममधिकृत्यास्मिन्नय दश वृद्धा विगता इत्यभिदधतस्तन्यूनाधिकभावे, एवं मिश्रका सत्यामृषा उत्पन्नविगतोभयसत्यामृषा, यथैकं पत्तनमधिकृत्याहास्मिन्नच दश द्वारका जाता दश च वृद्धा विगता इत्यभिदधतस्तश्यूनाधिक भावे, जीवमिश्रा जीवविषया सत्यामृषा यथा जीवन्मृतकृमिराशी जीवराशिरिति, अजीवमिश्रा च-अजीवविषया | सत्यामृषा यथा तस्मिन्नेव प्रभूतमृतकृमिराशावजीवराशिरिति, जीवाजीवमिश्रेति-जीवाजीवविषया सत्यामृषा यथा तस्मिन्नेव जीवन्मृतकृमिराशौ प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्यूनाधिकभावे । 'तथानन्तमिश्रा खल्बिति अनन्तविषया सत्यामृषा यथा मूलकन्दादौ परीतपत्रादिमत्यनन्तकायोऽयमित्यभिदधतः, परीतमिश्रा-परीतविषया सत्यामृषा यथा अनन्तकायले शवति परीतम्लानमूलादौ | परीतोऽयमित्यभिदधतः । अद्धामिश्रा- कालविषया सत्यामृषा यथा कश्चित् कस्मिंश्चित् प्रयोजने सहायांस्त्वरयन् परिणतप्राये वासर एव रजनी वर्तत इति ब्रवीति, अद्धद्धमिश्रा च दिवसरजन्येकदेशः अद्धद्धोच्यते, Far P&Personally मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र - [३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः ~ 421~ ७ वाक्य शुद्ध्य० भाषास्वरूपम् २ उद्देशः ॥ २०९ ॥
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy