________________
आगम
(४२)
प्रत
सूत्रांक
||ε6..||
दीप
अनुक्रम [२९३..]
Education in
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [७], उद्देशक [ - ], मूलं [ १५...] / गाथा ||६८...|| निर्युक्तिः [२७३], भाष्यं [६२...]
तत्तत्सहकारिकारणसंनिधानेन तत्सद्रूपमभिव्यज्यत इति सत्यता । व्यवहारसत्यं नाम दह्यते गिरिर्गलति भाजनमनुदरा कन्या अलोमा एडकेति गिरिगततृणादिदाहे व्यवहारः प्रवर्तते तथोदके च गलति सति तथा संभोगजबीजप्रभवोदराभावे च सति तथा लवनयोग्यलोमाभावे सति । भावसत्यं नाम शुक्ला बलाका, सत्यपि पञ्चवर्णसंभवे शुक्लवर्णोत्कटत्वाच्छुक्क्रेति । योगसत्यं नाम छन्त्रयोगाच्छत्री दण्डयोगाद्दण्डीत्येवमादि दशममौपम्यसत्यं च तत्रौपम्यसत्यं नाम समुद्रवत्तदाग इति गाथार्थः ॥ उक्ता सत्या, अधुना मृषामाह
कोहे माणे माया लोभे पेज्जे सहेब दोसे अ। हासभए अक्वाइय उवघाट निस्सिआ दसमा ।। २७४ ||
व्याख्या - क्रोध इति क्रोधनिसृता, यथा क्रोधाभिभूतः पिता पुत्रमाह-न त्वं मम पुत्रः, यद्वा क्रोधाभिभूतो वक्ति तदाशयविपत्तितः सर्वमेवासत्यमिति, एवं माननिस्सृता मानाध्मातः कचित्केनचिदल्पधनोऽपि पृष्ट आह- महाधनोऽहमिति मायानिसृता मायाकारप्रभृतय आहुः नष्टो गोलक इति, लोभनिसृता वणि| क्प्रभृतीनामन्यथाक्रीतमेवेत्थमिदं क्रीतमित्यादि, प्रेमनिसृता अतिरक्तानां दासोऽहं तवेत्यादि, द्वेषनिसृता | मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि, हास्यनिस्सृता कान्दर्पिकानां किंचित्कस्यचित्संबन्धि गृहीत्वा पृष्ठानां न दृष्टमित्यादि, भयनिस्सृता तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानम्, आख्यायिकानिसृता तत्प्रतिबद्धोऽसत्प्रलापः, उपघातनिस्सृता अचौरे चौर इत्यभ्याख्यानवचनमिति गाथार्थः ॥ उक्ता मृषा, साम्प्रतं सत्यामृषामाह
For P&Personality
मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ४२ ], मूल सूत्र [३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
~420~
wwayang