________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||६७-६८|| नियुक्ति: [२६८...], भाष्यं [६२...]
(४२)
प्रत सूत्रांक ||६७-६८||
वरॐ**
उक्त शोभावर्जनस्थानविधिः, तदभिधानादष्टादशं पदं, तदभिधानाचोत्तरगुणाः, साम्प्रतमुक्तफलप-| दर्शनेनोपसंहरनाह-खर्वति'त्ति सूत्रं, क्षपयन्त्यात्मानं तेन तेन चित्रायोगेनानुपशान्तं शमयोजनेन जीवं,I8 किंविशिष्टा इत्याह-'अमोहदर्शिनः' अमोहं ये पश्यन्ति, यथावत्पश्यन्तीत्यर्थः, त एव विशेष्यन्ते-तपसिअनशनादिलक्षणे रताः-सक्ताः, किंविशिष्टे तपसीत्याह-संयमार्जवगुणे' संयमार्जबे गुणी यस्य तपसस्तस्मिन् , संयमऋजुभावप्रधाने, शुद्ध इत्यर्थः, त एवंभूता 'धुन्वन्ति' कम्पयन्त्यपनयन्ति पापानि 'पुराकृतानि जन्मान्तरोपात्तानि 'नवानि' प्रत्यग्राणि पापानि न 'ते' साधकः कुर्वन्ति, तथाऽप्रमत्तत्वादिति सूत्रार्थः ॥१७॥ किंच-'सदोवसंत'त्ति सूत्रं, 'सदोपशान्ताः सर्वकालमेव क्रोधरहिताः, सर्वत्राममा-ममत्वशून्याः 'अकि
ना' हिरण्यादिमिध्यात्वादिद्रव्यभावकिञ्चनविनिर्मुक्ताः, वा-आत्मीया विद्या स्वविद्या-परलोकोपकारिणी केवल श्रुतरूपा तया खविद्यया विद्ययानुगता-युक्ताः, न पुनः परविद्यया इहलोकोपकारिण्येति. त एष विशेष्यन्ते-'यशखिन: शुद्धपारलौकिकयशोवन्तः, त एवंभूता ऋतौ प्रसन्ने' परिणते शरत्कालादौ विमल इव चन्द्रमाः चन्द्रमा इव विमला, इत्येवंकल्पास्ते भावमलरहिताः 'सिद्धिं' निर्वृति तथा सावशेषकर्माणो | विमानानि' सौधर्मावतंसकादीनि 'उपयान्ति' सामीप्येन गच्छन्ति 'त्रातारः' स्वपरापेक्षया साधवः, इति ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववत्, ॥ १८॥ व्याख्यातं षष्ठाध्ययनम्
इति श्रीहरिभद्रसूरिविरचितायां दशवैकालिकवृत्तौ षष्ठमध्ययनम् ॥६॥
दीप अनुक्रम [२९२-२९३]
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
अत्र षष्ठं अध्ययनं परिसमाप्तं
~ 416~