________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा ||६-७|| नियुक्ति: [२६६], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत सूत्रांक ||६-७||
दीप अनुक्रम [२३१-२३२]
त्यागेन अस्फुटिताः सर्वविराधनापरित्यागेन, तत् शृणुत यथा कर्तव्यास्तथेति सूत्रार्थः ॥६॥ते चागुणपरिहारेणाखण्डास्फुटिता भवन्तीति अगुणास्तावदुच्यन्ते-'दस'त्ति सूत्रं, दशाष्टौ च 'स्थानानि' असंयमस्थानानि वक्ष्यमाणलक्षणानि 'यानि' आश्रित्य 'बाल' अज्ञः 'अपराध्यति' तत्सेवनयाऽपराधमामोति, कथमपराध्यतीत्याह-तत्रान्यतरे स्थाने वर्तमानः प्रमादेन 'निर्ग्रन्थत्वात् निर्ग्रन्थभावाद् 'भ्रश्यति निश्चयनयेनापैति || बाल इति सूत्रार्थः ॥ अमुमेवार्थ सूत्रस्पर्शनियुक्त्या स्पष्टयति
अद्वारस ठाणाई आयारकहाएँ जाई भणिवाई । तेसि अन्नतराग सेवंतु न होइ सो समणो ॥ २६७ ।। व्याख्या-अष्टादशस्थानान्याचारकवायां प्रस्तुतायां यानि भणितानि तीर्थकरैः तेषामन्यतरस्थानं सेवमानो न भवत्यसौ श्रमण आसेवक इति गाथार्थः ॥ कानि पुनस्तानि स्थानानीत्याह नियुक्तिकार:
क्यछकं कायछकं, अकप्पो गिहिभायणं । पलियंकनिसेज्जा य, सिणाणं सोहवजणं ।। २६८ ॥ व्याख्या-'व्रतषट् प्राणातिपातनिवृत्यादीनि रात्रिभोजनविरतिषष्ठानि षड् ब्रतानि कायषट्-पृथिव्यादयः षडू जीवनिकायाः 'अकल्प:' शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः 'गृहिभाजन गृहस्थसंबन्धि कांस्यभाजनादि प्रतीत दा'पर्य' शयनविशेषः प्रतीतः । 'निषद्या च' गृहे एकानेकरूपा 'लान' देशसर्वभेदभिन्नं 'शोभावर्जन' विभूषापरित्यागः, वर्जनमिति च प्रत्येकमभिसंबध्यते, शोभावर्जन लानवर्जनमित्यादीति गाथार्थः ॥७॥
~ 394~