________________
आगम
(४२)
प्रत
सूत्रांक
||१२
-१८||
दीप
अनुक्रम [८७-९३]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा || १२- १८ || निर्युक्तिः [ २४४...], भाष्यं [६२...] आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
मुनि दीपरत्नसागरेण संकलित
दशवैका० हारि-वृत्तिः
॥ १६६ ॥
Ja Education
सूत्रार्थः ॥ १३ ॥ किं च-- 'दवदवस्स' ति सूत्रं, 'दुतं द्रुतं त्वरितमित्यर्थः न गच्छेत् भाषमाणो वा न गोचरे गच्छेत्, तथा हसन्नाभिगच्छेत्, कुलमुच्चावचं सदा, उयं द्रव्यभावभेदाद्विधा द्रव्योवं धवलगृहवासि भावोचं जात्यादियुक्तम्, एवमवचमपि द्रव्यतः कुटीरकवासि भावतो जात्यादिहीनमिति । दोषा उभयविराधनालोकोपघातादय इति सूत्रार्थः ॥ १४ ॥ अत्रैव विधिमाह - 'आलोअं थिग्गले' ति सूत्रम्, 'अवलोकं' निर्यूहकादिरूपं 'थिग्गलं' चितं द्वारादि, संधिः- चितं क्षत्रम्, 'उदकभवनानि' पानीयगृहाणि चरन् भिक्षार्थ न 'विनिध्यायेत्' विशेषेण पश्येत्, शङ्कास्थानमेतदवलोकादि अतो विवर्जयेत्, तथा च नष्टादौ तत्राशङ्कोपजायत इति सूत्रार्थः ॥ १५ ॥ किंच- 'रपणोति सूत्रं राज्ञः- चक्रवर्त्यादेः 'गृहपतीनां' श्रेष्ठप्रभृतीनां रहसाठाणमिति योगः, 'आरक्षकाणां च दण्डनायकादीनां 'रहस्थानं' गुद्यापवरकमन्त्रगृहादि 'संक्लेशकरम्' असदिच्छाप्रवृत्त्या मन्त्रभेदे वा कर्षणादिनेति दूरतः परिवर्जयेदिति सूत्रार्थः ॥ १६ ॥ किंच- 'पढिकुट्ट' त्ति सूत्रं, प्रतिकुष्टकुलं द्विविधम्-इत्वरं यावत्कथिकं च, इत्वरं सूतकयुक्तं, यावत्कथिकम् - अभोज्यम्, एतन प्रविशेत् शासनलघुत्वप्रसङ्गात्, 'मामकं' यन्त्राऽऽह गृहपतिः - मा मम कचिगृहमागच्छेत् एतत् वर्जयेत्, भण्डनादिप्रसङ्गात्, 'अचिअत्तकुलम्' अप्रीतिकुलं पत्र प्रविशद्भिः साधुभिरप्रीतिरुत्पद्यते, न च निवारयन्ति, कुतश्चिनिमित्तान्तरात्, एतदपि न प्रविशेत्, तत्संक्लेशनिमित्तत्वप्रसङ्गात्, 'चिअसम्' अचिअत्तविपरीतं प्रविशेत्कुलं, तदनुग्रहप्रसङ्गादिति सूत्रार्थः ॥ १७॥ किं च 'साणित्ति सूत्रं, 'शाणीप्रावारपिहित' मिति शाणी
Forte & Personal Use City
~ 335~
५ पिण्डैषणाध्य०
॥ १६६ ॥
brary dig