________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-1, मूलं [१] / गाथा ||१५...|| नियुक्ति: [२३१], भाष्यं [५७...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत सूत्रांक
[१]
दीप
संमूर्छन्तीति संमूछिमाः-प्रसिद्धबीजाभावेन पृथिवीवर्षादिसमुद्भवास्तथाविधास्तृणादयः, न चैते न संभ
वन्ति, दग्धभूमावपि संभवात् , तथा तृणलतावनस्पतिकायिका इति, अत्र तृणलताग्रहणं खगतानेकभेदसंदादर्शनार्थ, वनस्पतिकायिकग्रहणं सूक्ष्मयादराद्यशेषवनस्पतिभेदसंग्रहार्थम्, एतेन पृथिव्यादीनामपि खगताः
भेदाः पृथिवीशर्करादया तथाऽवश्यायमिहिकादया तथा अङ्गारज्वालादयः, तथा झण्झामण्डलिकादयो [भेदा:]] सूचिता इति । 'सथीजाश्चित्तवन्त आख्याता' इति, एते धनन्तरोदिता वनस्पतिविशेषाः सबीजा:-खस्खनिवन्धनाश्चित्तवन्तः-आत्मवन्त आख्याता:-कथिताः । एते च अनेकजीवा इत्यादि ध्रुवगण्डिका पूर्ववत् । सबीजाश्चित्तवन्त आख्याता इत्युक्तम्, अत्र च भवत्याशङ्का-किं बीजजीव एवं मूलादिजीवो भवत्युतान्यस्तमिनुकान्ते उत्पद्यते इति?, अस्य व्यपोहायाह-"
श्रीए जोणिन्भूए जीवो तुकमा सो व अन्नो वा । जोऽवि य मूले जीवो सोऽवि य पत्ते पढमयाए ॥ २३२ ॥ व्याख्या-धीजे योनिभूते इति, बीजं हि द्विविधं भवति-योनिभूतमयोनिभूतं च, अविध्वस्तयोनि विध्वस्तयोनि च, प्ररोहसमर्थं तदसमर्थ चेत्यर्थः । तत्र योनिभूतं सचेतनमचेतनं च, अयोनिभूतं तु नियमादचेतदानमिति । तत्र वीजे योनिभूते इत्यनेनायोनिभूतस्य व्यवच्छेदमाह, तत्रोत्पत्यसंभवाद, अबीजवादित्यर्थः ।।
योनिभूते तु-योन्यवस्थे बीजे, योनिपरिणाममत्यजतीत्युक्तं भवति, किमित्याह-जीचो व्युत्क्रामति-उत्पद्यते, स एव-पूर्वको बीजजीवा, बीजनामगोत्रे कर्मणी वेदायित्वा मूलादिनामगोत्रे चोपनियख्य, अन्यो वा पृथिवी
अनुक्रम
[३२]
~282~