________________
आगम
(४२)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम [३२]
दशवैका ० हारि-वृत्तिः
॥ १३९ ॥
Education
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [४], उद्देशक [ - ], मूलं [१] / गाथा || १५...|| निर्युक्तिः [ २३१], भाष्यं [ ५७...] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
पाण्डुमृदश्च यदा कृष्णमृदा कलुषितमुदकं भवति तदाऽसौ कृष्णमृद् उदकस्य पाण्डुमृदश्च शस्त्रं भवति, एवं (तत्) तु द्रव्यशस्त्रं, तुशब्दोऽनेकप्रकारविशेषणार्थः, एतदनेकप्रकारं द्रव्यशस्त्रम्, 'भाव' इति द्वारपरामर्शः, असंयमः शस्त्रं चरणस्येति गाथार्थः । एवं च परिणतायां पृथ्व्यामुचारादिकरणेऽपि नास्ति तदतिपात इत्यहिंसकत्वोपपत्तेः संभवी साधुधर्म इति । एष तावदागमः, अनुमानमप्यत्र विद्यते - सात्मका विद्रुमलवणोपलादयः पृथिवीविकाराः, समानजातीयाङ्करोत्पस्युपलम्भात्, देवदत्तमांसाङ्कुरवत्, एवमागमोपपत्तिभ्यां व्यवस्थितं पृथिवीकायिकानां जीवत्वम् उक्तं च- “ आगमयोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये || १ || आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धे| त्वसंभवात् || २ ||" इत्यलं प्रसङ्गेन । एवमापश्चित्तवत्य आख्याताः, तेजश्चित्तवदाख्यातं, वायुवित्तवानाख्यातः, वनस्पतिश्चित्तवानाख्यातः, इत्याद्यपि द्रष्टव्यम्। विशेषस्त्वभिधीयते - सात्मकं जलं, भूमिस्वातस्वाभा विकसंभवात्, दर्दुरवत्। सात्मकोऽग्निः, आहारेण वृद्धिदर्शनात्, बालकवत् । सात्मकः पवनः, अपरप्रेरिततिर्यग्निगनियमित दिग्गमनाद्, गोवत्। सचेतनास्तरवः सर्वस्वगपहरणे मरणाद्, गर्दभवत् । वनस्पतिजीवविशे| प्रतिपादनायाह-'संजहा अग्गबीया' इत्यादि, तद्यथेत्युपन्यासार्थः, अग्रवीजा इति-अनं बीजं येषां ते अग्रबीजा:- कोरण्टकादयः, एवं मूलं बीजं येषां ते मूलबीजा-उत्पलकन्दादयः, पर्व बीजं येषां ते पर्वबीजा -इक्ष्वादयः, स्कन्धो बीजं येषां ते स्कन्धवीजाः शलक्यादयः, तथा बीजाद्रोहन्तीति बीजरुहाः शाल्यादयः,
For ane & Personal Use City
~ 281~
४ षड्जीवनिकाध्य० जीवस्वरूपं
॥ १३९ ॥