________________
आगम
(४२)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[३२]
वृश० २४
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [ ४ ], उद्देशक [-] मुनि दीपरत्नसागरेण संकलित
मूलं [१] / गाथा || १५... || निर्युक्तिः [ २३० ], भाष्यं [ ५७...] आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
रिणतां पृथिवीं विहाय परित्यज्यान्या चित्तवत्याख्यातेत्यर्थः । अथ किमिदं पृथिव्याः शस्त्रमिति शस्त्रप्रस्तावात्सामान्यत एवेदं द्रव्यभावभेदभिन्नं शस्त्रमभिधित्सुराह
दव्वं सत्यग्गविसंनेविल खारलोणमाईयं । भावो उ दुप्पउत्तो वाया काओ अबिरई अ ।। २३० ॥
व्याख्या- 'द्रष्य' मिति द्वारपरामर्शः, तत्र द्रव्यशस्त्रं खड्गादि, अग्निविषस्नेहाम्लानि प्रसिद्धानि, 'क्षारलवणादीनि' अत्र तु क्षारः - करीरादिप्रभवः, लवणं-प्रतीतम्, आदिशब्दात्करीषादिपरिग्रहः । उक्तं द्रव्यशस्त्रम्, अधुना भावशस्त्रमाह-भावस्तु दुष्प्रयुक्तौ वाक्कायौ अविरतिश्च भावशस्त्रमिति, तत्र भावो दुष्प्रयुक्त इत्यनेन द्रोहाभिमानेर्ष्यादिलक्षणो मनोदुष्प्रयोगो गृह्यते, वाग्दुष्प्रयोगस्तु हिंस्रपरुषादिवचनलक्षणः, कायदुष्प्रयो गस्तु धावनवल्गनादिः, अविरतिस्त्वविशिष्टा प्राणातिपातादिपापस्थानकप्रवृत्तिः, एतानि खपरव्यापादकस्वात्कर्मबन्धनिमित्तत्वाद्भावशस्त्रमिति गाथार्थः ॥ इह न भावशस्त्रेणाधिकारः, अपितु द्रव्यशस्त्रेण, तच्च त्रिप्रकारं भवतीत्याह
किंची सकायथं किंची परकाय तदुभयं किंचि । एयं तु दव्यसत्थं भाषे अस्संजमो सत्यं । २३१ ।।
व्याख्या- किंचित्स्वकायशस्त्रं, यथा कृष्णा मृदू नीलादिमृदः शस्त्रम्, एवं गन्धरसस्पर्शभेदेऽपि शस्त्रयोजना कार्या, तथा 'किञ्चित्परकाये'ति परकायशस्त्रं यथा पृथ्वी असेजःप्रभृतीनाम् असेजःप्रभृतयो वा - थिव्याः, 'तदुभयं किञ्चिदिति किञ्चित्तदुभयशस्त्रं भवति, यथा कृष्णा मृद् उदकस्य स्पर्शरसगन्धादिभिः
For ane & Personal Use Oily
~ 280~
brary dig