SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||88..|| दीप अनुक्रम [१६.. ] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [३], उद्देशक [-], मूलं [-] / गाथा ||११...|| निर्युक्तिः [१८७ ], भाष्यं [ ४...] आगमसूत्र - [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः मुनि दीपरत्नसागरेण संकलित कुते, सर्वशङ्का तु प्राकृतनिबद्धत्वात्सकलमेवेदं परिकल्पितं भविष्यतीति, न पुनरालोचयति यथा-भावा हेतुग्राह्या अहेतुग्राह्याश्च तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति, प्राकृतनिबन्धोऽपि वालादिसाधारण इति उक्तञ्च - "बालस्त्रीमूढमूर्खाणां, नृणां चारित्रकाङ्क्षिणाम् | अनुग्रहार्थं तत्वज्ञः, सिद्धान्तः प्राकृतः स्मृतः ॥ १ ॥” दृष्टेष्टाविरुद्धश्चेति, उदाहरणं चात्र पेयापेयको यथाऽऽवश्यके, ततञ्च निःशङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचरणात् तत्प्राधान्यविवक्षया दर्शनाचार उच्यते, अनेन दर्शनदर्शनिनोर भेदमाह, तदेकान्तभेदे त्वदर्शनिन इव तत्फलाभावात् मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कार्येति १ । तथा निष्काङ्क्षितो-देशसर्वकाङ्क्षारहितः, तत्र देशकाङ्क्षा एवं दर्शनं काङ्गति दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति, नालोचयति षड्जीवनिकायपीडामसत्प्ररूपणां च, उदाहरणं चात्र राजामात्यौ यथाऽऽवश्यक इति २ । विचिकित्सा-मतिविभ्रमः निर्गता विचिकित्सा-मतिविभ्रमो यतोऽसौ निर्विचिकित्सः, साध्वेव जिनदर्शनं किन्तु प्रवृत्तस्यापि सतो ममास्मात्फलं भविष्यति न भविष्यतीति ?, क्रियायाः कृषीवलादिषूभयोपलब्धेरिति विकल्परहितः, न ह्यविकल्प उपाय उपेयवस्तुपरिप्रापको न भवतीति सञ्जातनिश्चयो निर्विचिकित्स उच्यते एतावताऽंशेन निःशङ्किताद्भिन्नः, उदाहरणं चात्र विद्यासाघको यथाऽऽवश्यक इति यद्वा निर्विजुगुप्सः - साधुजुगुप्सारहितः, उदाहरणं चात्र श्रावकदुहिता यथाऽऽवश्यक एव ३। तथाऽमूढदृष्टिश्च बालतपखितपोविद्याऽतिशयदर्शनेन मूढा - खरूपान्न च For ne&Personal Use City ~206~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy