________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-1 / गाथा ||५...|| नियुक्ति: [१५३], भाष्यं [४...]
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
Bॐॐॐॐ
सूत्रांक/
गाथांक ||५..||
समणस्स उ निकखेवो चउक्को होइ आणुपुबीए । दवे सरीरभविओ भावेण उ संजओ समणी ॥ १५३॥ व्याख्या-श्रमणस्य तु तुशब्दोऽन्येषां च मङ्गलादीनामिह तु श्रमणेनाधिकार इति विशेषणार्थः, निक्षेप|श्चतुर्विधो भवति, 'आनुपूा' नामादिक्रमेण, नामस्थापने पूर्ववत्, द्रव्यश्रमणो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्ता, नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्यतिरिक्तोऽभिलापभेदेन दुमवदवसेयः, तं चानेनोपलक्षयति-'दव्ये सरीरभविउत्ति । भावभ्रमणोऽपि द्विविध एक्-आगमतो ज्ञातोपयुक्तः नोआगमतस्तु चारित्रपरिणामवान् यतिः, तथा चाह-भावतस्तु संयतः श्रमण इति गाथार्थः॥ १५३ ॥ अ-16
स्यैव स्वरूपमाह४ जह मम न पियं दुक्खं जाणिय एमेव सब्वजीवाणं । न हणइ न हणावेइ य सममणई तेण सो समणो ॥ १५४॥
व्याख्या-यथा मम न प्रियं दुःखं, प्रतिकूल वात्, ज्ञात्वैवमेव सर्वजीवानां दुःखप्रतिकूलत्वम् न हन्ति खयं न घातयत्यन्यैः, चशब्दाद अन्तं च नानुमन्यतेऽन्यम् , इत्यनेन प्रकारेण समम् अणति-तुल्यं गच्छति यतस्तेनासौ श्रमण इति गाथार्थः ॥१५४॥
नधि य सि कोइ वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होह समणो एसो अन्नोऽवि पज्जाओ ।। १५५ ।। व्याख्या-नास्ति च 'सि' तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, तुल्यमनस्त्वात्, एतेन भवति सममनाः, समं मनोऽस्येति सममना, एषोऽन्योऽपि पर्याय इति गाधार्थः ॥ १५५ ॥
ॐॐॐॐSEE
दीप
अनुक्रम
[५..]
'श्रमण' शब्दस्य निक्षेपा: एवं व्याख्या:
~168~