________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा ||५|| नियुक्ति: [१३६], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक/
गाथांक ||५||
दिगम्बरभिक्षुभौतादिवत्, इह ये स्थावरजङ्गमभूतोपरोधपरिहारिणस्ते उभयप्रसिद्धैवंविधपुरुषवदहिंसादिलक्षणधर्मसाधका दृष्टाः, तथा च साधवः स्थावरजङ्गमभूतोपरोधपरिहारिण इत्युपनयः, तस्मात्स्थावरजङ्गमभूतोपरोधपरिहारिवातेऽहिंसादिलक्षणधर्मसाधकाः साधव एवेति निगमनम्, पक्षादिशुद्धयस्तु निदर्शिता एवेति न प्रतन्यन्ते ॥१३६ ॥ एवमर्थाधिकारद्वयवशात् पश्चावयवदशावयवाभ्यां वाक्याभ्यां व्याख्यातमध्ययनमिदम्, इदानीं भूयोऽपि भयन्तरभाजा दशावयवेनैव वाक्येन सर्वमध्ययनं व्याचष्टे नियुक्तिकार:
ते व पइन्न विभत्ती हे विर्भत्ती विवेकखपंडिसेहो । "विट्ठतो आँसंका तप्पेडिसेहो निर्गमणं च ।। १३७ ॥ ४ व्याख्या-'ते' इति अवयवाः, तुः पुनःशब्दार्थः, ते पुनरमी प्रतिज्ञादया-तन्त्र प्रतिज्ञानं प्रतिज्ञा-वक्ष्यमाणखरूपेत्येकोऽवयवः, तथा विभजनं विभक्तिः-तस्या एव विषयविभागकथनमिति द्वितीयः, तथा हिनोतिगमयति जिज्ञासितधर्मविशिष्टानानिति हेतुस्तृतीयः, तथा विभजनं विभक्तिरिति पूर्ववच्चतुर्थः, तथा विसदृशः पक्षो विपक्षः साध्यादिविपर्यय इति पश्चमः, तथा प्रतिषेधनं प्रतिषेधः विपक्षस्येति गम्यते इत्ययं षष्ठः, तथा दृष्टमर्थमन्तं नयतीति दृष्टान्त इति सप्तमः, तथा आशङ्कनमाशङ्का प्रक्रमाद् दृष्टान्तस्यैवेत्यष्टमः, तथा तत्प्रतिषेधः अधिकृताशङ्काप्रतिषेध इति नवमः, तथा निश्चितं गमनं निगमनं निश्चितोऽवसाय इति दशमः, चशब्द उक्तसमुचयार्थ इति गाथासमासार्थः ॥१३७॥ व्यासाथै तु प्रत्यवयवं वक्ष्यति अन्धकार एव, तथा चाह
दीप अनुक्रम
~ 152~