________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा ||५|| नियुक्ति: [१३४], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक/
गाथांक ||५||
दशका०18|नित्यकालं त्रिगुप्तिगुप्ता एवं ते न कदाचिदपि, तत्परिज्ञानशून्यत्वात् , तस्मान्नैते साधच इति गाथार्थः ॥१३४॥ दमा हारि-वृत्तिःसाधव एव तु साधवः, कथम् , यतः
| पिका. कार्य वायं च मणं च इंदियाई च पंच दमयंति । धारेति यंभचेरं संजमयंति कसाए य ॥ १३५ ॥
दशाव॥७४।। || व्याख्या-कार्य वाचं मनश्शेन्द्रियाणि च पञ्च दमयन्ति, तत्र कापेन सुसमाहितपाणिपादास्तिष्ठन्ति यवा:
गच्छन्ति वा, वाचा निष्प्रयोजनं न युवते प्रयोजनेऽप्यालोच्य सत्त्वानुपरोधेन, मनसा अकुशलमनोनिरोधं| कुशलमनउदीरणं च कुर्वन्ति, इन्द्रियाणि पश्च दमयन्ति इष्टानिष्टविषयेषु रागद्वेषाकरणेन, पञ्चेति साथपरिकल्पितकादशेन्द्रियव्यच्छेदार्थम् , तथा च वाक्पाणिपादपायूपस्थमनासीन्द्रियाणि तेषामित्ति, धारयन्ति[1 ब्रह्मचर्य, सकलगुसिपरिपालनात्, तथा संयमयन्ति कषायाँश्च, अनुदयेनोदयविफलीकरणेन चेति गाथार्थः॥१३५॥
जं च तवे उजुत्ता तेणेसि साछुलक्षणं पुणं । तो साहुणो त्ति भण्णति साहवो निगमणं घेयं ॥ १३६ ॥ व्याख्या-यच 'तपसि' प्राग्वर्णितस्वरूपे, किम् ?-'उद्युक्ता' उद्यताः तेन कारणेनैषां साधुलक्षणं 'पूर्णम्' अविकलम् , कथम् ?-अनेन प्रकारेण साधयन्त्यपवर्गमिति साधवः, यतश्चैवं ततः साधव एव भण्यन्ते साधयो, न चरकादय इति, निगमनं चैतदिति गाथार्थः ॥१३६॥ इत्थमुक्तं दशावयवम् , प्रयोगं खेवं वृद्धा दर्शयन्तिअहिंसादिलक्षणधर्मसाधकाः साधव एव, स्थावरजङ्गमभूतोपरोधपरिहारित्वात्, तदन्यैवंविधपुरुषवत्, विपक्षो
दीप अनुक्रम
~151~