________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा ||३|| नियुक्ति: [११८], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक/
गाथांक ||३||
ABO
तस्मिन्नाकाशे प्रतिष्टितः तत्प्रतिष्ठितः, प्रतिष्ठति स्म प्रतिष्ठितः-प्रकर्षेण स्थितवानित्यर्थः, अनेन स्थितः स्थास्यति चेति गम्यते, कोऽसावित्थमित्यत आह-लोकः' लोक्यत इति लोकः, केवलज्ञानभावता दृश्यत इत्यर्थः, इह धर्मादिपश्चास्तिकायात्मकत्वेऽपि लोकस्याकाशास्तिकायस्थाधारखेन निर्दिष्टत्वाचत्वार एवास्तिकाया गृह्यन्ते, यतो नियुक्तिकारेणाभ्यघायि-तत्पतिष्ठितो लोक', 'विहङ्गमः से' इत्यत्र विहे-नभसि गतो गच्छति गमिष्यति चेति विहङ्गमः, गमिरयमनेकार्थत्वाद्धातूनामवस्थाने वर्तते, ततश्च विहे स्थितवांस्तिष्ठति स्थास्यति चेति भावार्थः, स.इति-चतुरस्तिकायात्मक, "भावार्थ' इति भावश्चासावर्थश्च भावार्थः, अयं भावविहङ्गम इत्यर्थः । उक्त एकेन प्रकारेण भावविहङ्गमा, पुनरपि गुणसिद्धिमन्पेन प्रकारेणाभिधातुकाम आह-वा गतिर्मिविधेति, वाशब्दस्य व्यवहित उपन्यासः, एवं तु द्रष्टव्यः-गतिर्वा द्विविधेति, तत्र गमनं गच्छति वाऽनयेति गतिः, द्वे विधे यस्याः सेयं द्विविधा, द्वैविध्यं वक्ष्यमाणलक्षणमिति गाथाथैः ॥११८॥ तथा चेदमेव द्वैविध्यमुपदर्शयन्नाह
भावगई कम्मगई भावगई पप्प अस्थिकाया उ । सव्वे विहंगमा खलु कम्मगईए इमे भेया ।। ११९ ॥ व्याख्या-भवन्ति भविष्यन्ति भूतवन्तश्चेति भावाः, अथवा भवन्त्येतेषु स्वगता उत्पादविगमनौव्याख्याः परिणामविशेषा इति भावा-अस्तिकायास्तेषांगतिः-तथापरिणामवृत्तिर्भावगतिः, तथा कर्मगतिरित्यत्र क्रियत इति कर्म-ज्ञानावरणादि पारिभाषिकम् , क्रिया वा, कर्म च तद्गतिश्चासौ कर्मगतिः, गमनं गच्छत्यनया वेति
दीप अनुक्रम
~142~