________________
आगम
(४२)
प्रत सूत्रांक /
गाथांक
||3||
दीप अनुक्रम
[3]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) अध्ययनं [१], उद्देशक [-]
मुनि दीपरत्नसागरेण संकलित
दशवैका० हारि-वृत्तिः
॥ ६९ ॥
मूलं [-] / गाथा ||३|| निर्युक्ति: [११७], भाष्यं [ ४... ] आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
न्धवाचकः, तथा च लोकेऽपि "सिद्धिर्भवतु" इत्युक्ते इष्टार्थसम्बन्ध एव प्रतीयत इति, तया गुणसंज्ञासिद्ध्या हेतुभूतया, किम् ? - 'द्विविधो' द्विप्रकारः, गुणसिद्ध्या-अन्वर्थसम्बन्धेन तथा संज्ञासिद्ध्या च यदृच्छाभिधानयोगेन च। आह-पद्येवं द्विविध इति न वक्तव्यम्, गुणसंज्ञासिद्ध्येत्यनेनैव द्वैविध्यस्य गतत्वात् न, अनेनैव प्रकारेणेह वैविध्यं, आगमनोआगमादिभेदेन नेति ज्ञापनार्थमिति गाथार्थः ॥ ११७ ॥ तत्र यथोद्देशं निर्देश' इति न्यायमाश्रित्य गुणसिद्ध्या यो भावविहङ्गमस्तमभिधित्सुराह—
विमागासं भण्ण गुणसिद्धी तप्पइडिओ लोगो । तेण उ विहङ्गमो सो भावत्थो वा गई दुविधा ।। ११८ ॥ व्याख्या- विजहाति - विमुञ्चति जीवपुद्गलानिति विहं, ते हि स्थितिक्षयात्स्वयमेव तेभ्य आकाशप्रदेशेभ्य यवन्ते, ताँश्यवमानान्विमुञ्चतीति, शरीरमपि च मलगण्डोलकादि विमुञ्चत्येव (इति) मा भूत् संदेह इत्यत आह-आकाशं भण्यते, न शरीरादि, संज्ञाशब्दत्वात्, आकाशन्ते दीप्यन्ते स्वधर्मोपेता आत्मादयो यत्र तदाकाशम् किम् ? -संतिष्ठत इत्यादिक्रियाव्यपोहार्थमाह- 'भण्यते' आख्यायते, गुणसिद्धिरित्येतत्पदं गाथा भङ्गभयादस्थाने प्रयुक्तम्, संबन्धवास्य 'तेन तु विहंगमः स' इत्यन्त्र तेन त्वित्यनेन सह वेदितव्य इति, ततश्चायं वाक्यार्थः तेन तुशब्दस्यैवकारार्थत्वेनावधारणार्थत्वाद्येन विमाकाशं भण्यते तेनैव कारणेन गुणसिद्ध्या-अन्वर्थसम्बन्धेन विहङ्गमः कोऽभिधीयत ? इत्याह-'तत्प्रतिष्ठितो लोकः तदित्यनेनाकाशपरामर्शः,
१ भेदेनेति प्र० २ विहङ्गमा० प्र०
For ane & Personal Use Oily
~ 141 ~
१ द्रुमपु
पिका०
विहङ्गमनिक्षेपाः
।। ६९ ।।
ibrary dig