________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१२०] → “नियुक्ति: [१९] + भाष्यं [२१] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२१||
दीप अनुक्रम [१२०]
व्याख्या--इह सर्वोत्कृष्टादपि देशविरतिविशुद्धिस्थानाजघन्यमपि सर्वविरतिविशुद्धिस्थानमनन्तगुणम् , अनन्तगुणता च सर्वचापि षटस्थानकचिन्तायां सर्वजीवानन्तकप्रमाणेन गुणकारेण द्रष्टव्या, इयं चात्र भावना-जघन्यमपि सर्वविरतिविशुद्धिस्थान केवलिप्रज्ञाच्छेदकेन छियते, छिया छिया च निर्विभागा भागाः पृथक् क्रियन्ते, ते च निर्षिभागा भागाः सर्वसङ्कल्पनया परिभाष्यमानाःया सर्वोत्कृष्टभेदेन देशविरतिविशुद्धिस्थानगता निर्विभागा भागाः सर्वजीवानन्तकरूपेण गुणकारेण गुण्यमाना यावन्तो जायन्ते तावल्प-10 माणाः पाप्यन्ते, अत्राप्ययं भावार्थ:-इह किलासत्कल्पनया सर्वोत्कृष्टस्य देशविरतिविशुद्धिस्थानस्य निर्विभागा भागा दश सहस्राणि १००००, सर्वजीवानन्तकप्रमाणश्च राशिः शतं, ततस्तेन शनसख्येन सर्वजीवानन्तकपमाणेन राशिना दशसहस्रसङ्पाः सर्वोत्कृष्ट-1 देशविरतिविशुद्धिस्थानगता निर्विभागा भागा गुण्यन्ते, जातानि दश लक्षाणि १००००००, एतावन्तः किल सर्वजवन्यस्यापि सर्वविरतिविशुद्धिस्थानस्य निर्विभागा भामा भवन्ति । सम्पति सूत्रमनुम्रियते--'तत्र' तेषु संयमस्थानादिषु वक्तव्येषु प्रथमतः संयमस्थान
मुच्यते इति शेषः, 'अनन्ता' अनन्तसङ्ख्याः पाश्चात्यासत्कल्पनया दशलक्षप्रमाणा ये चारित्रपर्याया:-सर्वजघन्य चारित्रसत्कविशुद्धिस्थानबगता निर्विभागा भागाः ते समुदिताः संयमस्थानम्, अथोत्सर्वजघन्यं भवति, तस्मादनन्तरं यद्वितीयं संयमस्थानं तत्पूर्वस्वादनन्त
भागवद्धं, किमुक्तं भवति ?-प्रथमसंयमस्थानगतनिर्विभागभागापेक्षया द्वितीयसंयमस्थाने निर्विभागा भागा अनन्ततमेन भागेनाधिका भवन्तीति, तस्मादपि यदनन्तरं तृतीयं तत्ततोऽनन्तभागद्धम्, एवं पूर्वस्मादुत्तरोचराण्पनन्ततमेन भागेन वृद्धानि निरन्तर संयमस्थानानि तावद्वक्तव्यानि यावदङ्गुलमात्रक्षेत्रास-ख्येयभागमतप्रदेशराशिप्रमाणानि भवन्ति, एतावन्ति च समुदितानि स्थानानि कण्डकमित्युच्यते, तथा चाह-'सइनख्यातीतानि' असरूपेयानि तुः पुनरर्थे 'तानि' संयमस्थानानि कण्डकं भवति ज्ञातव्यं, कण्डक नाम समयपरिभाषया
~80~