________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०५] .→ "नियुक्ति: [९०] + भाष्यं [१५...] + प्रक्षेपं ।" मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
द्रव्योद्गमे
तेर्मलयगिरीयावृत्तिः
प्रत गाथांक नि/भा/प्र ||९०||
तस्सेवं बेरगुग्गमेण सम्मत्तनाणचरणाणं । जुगवं कमुग्गमो वा केवलनाणुग्गमो जाओ ॥ ९ ॥
व्याख्या-'वासगृहात् ' वासभवनात् अनुयात्रा-निर्गमः, तत आस्थान्यां योग्य क्रीडा सा व्यधीयत, ततः 'काले' भोजन- लड्डुकमिवेलायर्या तस्य 'लड्डुकप्रियस्य' मोदकप्रियस्य कुमारस्य योग्या घटेषु शरावेषु च कृत्वा मोदका जनन्या प्रेषिताः, ते च परिजनेन सह स्वेच्छ तेन भुक्ताः, ततो भूयोऽपि योग्यक्रीडा निरीक्षणासक्तचित्ततया तस्य रात्री जागरणभावतस्ते मोदका न:
कथा जीणोंः, ततोऽजीणेदोषप्रभावतोऽतीव पूतिगन्धो मारुतनिसर्गोऽभवत् , तत आहारोगमचिन्ता जाता, यथा 'त्रिसमुत्या' घृतगुडक-1 णिकासमुद्भवा एते मोदकाः, ततः शुचिसमुत्थाः, सूत्रे च जातावेकवचनं, केवळ द्विधा मलप्रभवोऽयं देहः, ततस्तत्सम्पर्कतोऽशुचयो | जाता इत्येवं तस्य वैराग्योरमेन ज्ञानदर्शनचारित्राणां युगपत्क्रमेण वा उद्मो जातः, ततः केवलज्ञानोद्गम इति गाथातरार्थः ।। भावार्थस्तु | कथानकादवसेयः, तच्चेदम्-श्रीस्थलकं नाम नगरं, तत्र राजा भानुः, तस्य भार्या रुक्मिणी, तया सुरूपनामा तनयः, स च यथासुखं पञ्चभिधात्रीभिः परिपाल्यमानः प्रथममुरकुमार इवानेकस्वजनहृदयाभिनन्दनं कुमारभावमधिरुरोह, ततः शुक्लपक्षचन्द्रबिम्बामिव | प्रतिदिवसं कलाभिरभिवर्द्धमानः क्रमेण कमनीयकामिनीजनमनःप्रहादकारिणीं यौवनिकामधिजगाम, तस्मै च स्वभावत एव रोचन्ते मोदकाः | ततो लोके तस्य मोदकपिय इति नाम प्रसिद्धिमगमत, स च कुमारोऽन्यदा वसन्तसमये वासभवनात पातरुत्थाय आस्थानमण्डपि-1 कायामाजगाम, तत्र च निजशरीरलवणिमापाकृतमुरसुन्दरीरूपाहडनरमनोहरविलासिनीजनगीतनृत्तादिकं परिभावयितुं पावत्तेत, तत्र च स्थितस्य भोजनवेलायामागतायां भोजननिमिचं जननी प्रधानशरावसम्पुटेषु शेषपरिजननिमित्तं च घटेषु कृत्वा मोदकान् प्रेषितवती, ततस्तेन परिजनेन सह मोदका यथेच्छं बुभुजिरे, ते च रात्रावपि गीतनृत्तादिव्यालिप्तचिचतया जागरणभावतो न जीर्णाः, ततोऽजीण
दीप अनुक्रम [१०५]
~69~