SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||८३ || दीप अनुक्रम [82] मूलं [९८] मुनि दीपरत्नसागरेण संकलित ********* “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः +वृत्तिः) भाष्यं [१५...] + प्रक्षेपं " ८० --> “निर्युक्तिः [८३] + आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः विन्ध्यमरण्यं ततो राजा कदाचिद् गजबलं महावलमित्यवश्यं मया गजा ग्रहीतव्या इति परिभाव्य गजग्रहणाय सत्वरं पुरुषान् प्रेरयामास, ते च पुरुषाञ्चिन्तितवन्तो यथा- गजानां नलचारिरभीष्टा, सा च सम्पति ग्रीष्मकाले न सम्भवति, किन्तु वर्षासु तत इदानीमरघटैः सरसीर्विभ्रमो येन नलवनान्यतिप्ररूढानि भवन्तीति तथैव कृतं नलवनप्रत्यासन्नाच सर्वतः पाशा मण्डिताः, इतच परिभ्रमन्तो यूथा| धिपतिसहिता इस्तिनः समाजग्मुः, यूयाधिपतिश्च तानि नलवनानि परिभाव्य गजान् प्रति उवाच -भोः स्तम्बेरमा ! नामूनि नलवनानि * स्वाभाविकानि, किन्त्वस्माकं बन्धनाय केनापि धूर्चेन कृतानि कूटानि, यत एवं नलवनान्यतिप्ररूढानि सरस्यो वाऽतीव जलसम्भृता वर्षासु सम्भवन्ति नेदानीं ग्रीष्मकाले, अथ वीरन् प्रत्यासन्नविन्ध्यपर्वतनिर्झरणप्रवाहत एवं सरस्यो भृता नलवनानि चातिप्ररूढानि * ततो नामूनि कूटानि, तदयुक्तम्, अन्यदाऽपि हि खलु निर्झरणान्यासरिन, न चैवं कदाचनाप्यतिजकभृताः सरस्योऽभूवन, तथा चैतदर्थसङ्ग्राहिकामेव नियुक्तिकारो गाथां पठति विइयमेयं गजकुलाणं, जया रोहंति नलवणा । अन्नयावि झरंति हृदा, न य एवं बहुओद्गा ॥ ८४ ॥ व्याख्या - विदितमेतद् गजकुलानां यदा 'रोहन्ति ' अतिशयेन प्ररूढानि भवन्ति नलवनानि, तस्मान्नामुनि स्वाभाविकानि, अथ निर्झरणवशादेवं प्ररूढानि तत आह-अन्यदाऽपि इदा झरन्ति न त्वेवं कदाचनापि बहूदकाः सरस्योऽभवन् तस्माद्धर्तेन केनाप्यमूनि कृतानि कूटानीति मात्र यूयं यासिष्ट, एवमुक्ते यैस्तद्वचः प्रतिपन्नं ते दीर्घकालं वनस्वेच्छाविहारसुखभागिनो जाताः, यैस्तु न कृतं ते चन्धबुभुक्षादिदुःखभागिनः, इहापि गजयूथाधिपतेर्नळ वनसदोषनिर्दोषरूपतापरिभावनं द्रव्यगवेषणा, दाष्टन्तिकयोजना तु पूर्व Eucation Intention For Penal Use Only ~66~ waryra
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy