________________
आगम (४१/२)
"पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [६०५] .. “नियुक्ति: [५६३] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||५६३||
व्याख्या-इह येन मात्रकेण कृत्वा भक्तादिकं दातुमिच्छति दात्री तान्यददातव्यं किमपि सचित्तमवित्त मिश्र वाऽस्ति ततस्तदन्यत्र भूम्यादौ क्षिप्त्वा तेनान्यद्ददाति, तञ्च कदाचित्सचित्तेषु पृथिव्यादिषु मध्ये क्षिपति कदाचिदचित्तेषु कदाचिन्मिश्रेष, क्षेपणं च संहरणमुच्यते, ततः संहरणे सचित्तायधिकृत्य चतुर्भही, अत्र जातावेकवचनं, तिस्रचतुर्भङ्गयो भवन्तीत्यर्थः, तथादि-एका-चतुर्भगी। सचित्तमिश्रपदाभ्यां, द्वितीया सचित्ताचित्तपदाभ्यां, मिश्राचित्तपदाभ्यां तृतीयेति, तत्र सचित्ते सचित्त संहत भित्रै सचित्रं सचित्ते मिश्रं मिश्रे मिश्रमिति मथमा चतुर्भझी, तथा सचित्ते सचित्तं संहृतम्, अचित्ते सचि, सचित्तेऽचित्तम्, अचित्तेऽचित्तमिति द्वितीया, तथा मिश्रे मिश्र संहृतम्, अचिचे मिश्र, मिश्रेऽचित्तम् , अचित्तेऽचित्तमिति तृतीया । अत्र गाथापर्यन्ततुशब्दसामर्थ्यात्प्रथमचतुर्भङ्गीकाया: सर्वेष्वपि भङ्गेषु प्रतिषेधः, द्वितीयतृतीयचतुर्भङ्गीकयोस्तु 'आदित्रिके' आदिमेषु त्रिषु त्रिषु भङ्गे प्रतिपेयः, चरमे भजना । अधुना
चतुर्भङ्गीत्रयसत्कावान्तरभङ्गाकथनेऽतिदेशमाहA जह चेव उ निक्खित्ते संजोगा चेव होंति भंगा य । तह चेव उ साहरणे नाणत्तमिणं तइयभंगे ॥ ५६४ ॥ 18 व्याख्या-यथैव 'निक्षिप्ते' निक्षिप्तद्वारे सचिचाचित्तमिश्रपदानां संयोगाः कृताः, यथैव च सचित्तपृथिवीकायः सचिचपृथिवीका
यस्योपरि निक्षिप्त इत्येवं स्वस्थानपरस्थानापेक्षया चतुर्भङ्गीत्रयभनेवेककस्मिन् भने षट्त्रिंशत् षट्त्रिंशद्भा उक्काः, सर्वस वचया चत्वारि शतानि द्वात्रिंशदधिकानि भङ्गानां, तथाऽत्रापि संहृतद्वारे द्रष्टव्या, तथाहि-मागिवात्रापि चतुर्भङ्गीत्रयमेकैकस्मिश्च भने सचित्तः पृथिवीकायः ।। सचित्तपृथिवीकायमध्ये संहृत इत्यादिरूपतया स्वस्थानपरस्थाने अधिकृत्य पत्रिंशत् षट्त्रिंशद्भङ्गाः, सर्वसङ्ख्यया भङ्गानां चत्वारि शतानि द्वात्रिंशदधिकानि । नवरं द्वितीयतृतीयचतुर्भड्कियोः प्रत्येक तृतीये तृतीये भनेऽनन्तरपरम्परमार्गणाविधी नितिद्वारादिदं वक्ष्यमाणं ।
दीप अनुक्रम [६०५]
~314~