________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५७८] .. “नियुक्ति: [५३६] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||५३६||
ते च चत्वारो भङ्गा अमी, तद्यथा-हस्तो प्रक्षितो मात्र च, हस्तो म्रसितो न मात्र, मात्रं म्रक्षितं न इस्तः, नापि मा नापि हस्तः
तत्राऽऽदिमे भङ्गत्रिक प्रतिषेधो, न कल्पते ग्रहीतृमिति भावः, चरमे भङ्गे पुनरनुज्ञातो यतिस्तीर्थकरगणधरैः, तत्र दोषाभावात् । अचिवातम्रक्षितमाश्रित्य कल्प्याकल्प्यविधिमाह
अञ्चित्तमक्खियंमि उ चउसुवि भंगेसु होइ भयणा उ।अगरहिएण उ गहणं पडिसेहो गरहिए होइ ॥५३७॥
व्याख्या-अचित्तप्रक्षितेऽपि हस्तमात्रे अधिकृत्य प्राग्वचत्वारो भङ्गाः, तत्र च चतुर्यपि भनेषु 'भजना' विकल्पना, तामेवाहall अहितेन ' लोकानिन्दितेन घृतादिना प्रक्षिते ग्रहणं, गर्हितेन तु वसादिना म्रक्षिते भवति प्रतिषेधः, तत्रापि चतुर्थों भङ्गः शुद्ध एवेति|
ग्रहणम् । अगर्हितम्रक्षितमप्यधिकृत्य विशेषमाहBI संसज्जिमेहिं वजं अगरहिएहिपि गोरसदवेहिं । मट्ठधयतेल्लगुलेहि य मा मच्छिपिपीलियाघाओ॥ ५३८॥
व्याख्या--संसक्तिमद्भयां तन्मध्यनिपतितजीवयुक्ताभ्यां 'गोरसदवाभ्यां ' दध्यादिपानकाभ्यामगर्दिताभ्यामपि म्रक्षितं म्रक्षिता भ्यां हस्तमात्राभ्यां वा दीयमानं 'घज्य परिहार्य, न ग्रहीतव्यमित्यर्थः, तथा मधुघृततैलद्वगुडैरगर्हितैरपि अक्षितं अक्षिताभ्यां वा इस्तमात्राभ्यां दीयमानं वज्य, कुत इत्याह-'मा मच्छिपिपीलियाघाओ' मा मक्षिकापिपीलिकानाम् , उपलक्षणमेतत् , पतङ्गादीनां : वातादिवशतो लमानां घातो-विनाशो भूदितिकृत्वा, एतचोत्कृष्टानुष्ठानं जिनकल्पिकायधिकृत्योक्तमक्सेयं, स्थविरकल्पिकास्तु यथाविधि यतनया घृतायपि गुडादिम्रक्षितमशोकवर्यायपि च गृहन्ति ।। सम्पति गर्दितागतिविशेषमाह
दीप अनुक्रम [५७८]
~302~