________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५५५] .. “नियुक्ति: [५१३] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||५१३||
दीप अनुक्रम [५५५]
व्याख्या-'एवम् ' उक्तेन प्रकारेणोद्गमोत्पादनाविशुद्धस्य-उद्मोत्पादनदोषरहितस्य गवेषितस्य पिण्डस्य ग्रहणं भवति 'ग्रहणविशोधिविशुद्धस्य ग्रहणविषयशङ्कगदिदोषाभावेन विशुद्धस्य, नान्यथा, ततो ग्रहणैषणादोषानहं वक्ष्ये इति भावः । ते च यत उत्पद्यन्ते । तत्समुत्थान् दर्शयति
___ उपायणाएँ दोसे साहूउ समुट्ठिए वियाणाहि । गहणेसणाइ दोसे आयपरसमुढ़िए वोच्छ ॥ ५१४॥ * व्याख्या-उत्पादनाया दोषान् साधुतः समुत्थितान् विजानीहि, ग्रहणैषणाया दोषास्त्वात्मपरसमुत्थितान् तानई वक्ष्ये । तत्र ये आत्मसमुत्था ये च परसमुत्थास्तान् विभागतो दर्शयतिदोन्नि उ साहुसमुत्था संकिय तह भावोऽपरिणयं च । सेसा अट्ठवि नियमा गिहिणो य समुट्ठिए जाण ॥५१५॥
व्याख्या-द्वौ दोषौ साधुसमुत्थिती, तयथा-शङ्कित भावतोऽपरिणतं च, एतच द्वयमपि वक्ष्यमाणस्वरूप, शेपानष्टावपि दोषान गृहिणः समुत्थितान् जानीहि । सम्पति ग्रहणैषणाया निक्षेपमाह
नाम ठवणा दविए भावे गहणेसणा मुणेयव्वा । दब्वे वानरजूहं भावंमि य दुसपया हुँति ॥ ५१६ ॥
व्याख्या-चतुर्दा ग्रहणैषणा, तद्यथा-नामग्रहणैषणा स्थापनाग्रहणैषणा द्रव्यग्रहणैषणा भावग्रहणैषणा च, तत्र नामस्थापने द्रव्यग्रहणैषणाऽपि यावद्भव्यशरीररूपा तावद्वेषणाबद्वक्तव्या, शरीरभव्यशरीरख्यतिरिक्त तु द्रव्यग्रहणैषणामाह-'द्रव्ये ' द्रव्यग्रहणैषणायामुदाहरणं वानरयूथं, भावग्रहणैषणा द्विधा, तद्यथा-आगमतो नोआगमतश्व, तत्राऽऽगमतो ज्ञाता तत्र चोपयुक्ता, नोभागमतस्तु ।
अथ एषणा विषयक दोष-संबंधी वर्णनं आरभ्यते
~294~