SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३१] . "नियुक्ति: [२४] + भाष्यं [...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२४|| संपातिमाना मक्षिकादीनां प्रक्षालनजलादिषु निपततां वायोश्च वधः' विनाशो भवति, तथा 'प्लावनेन ' प्रक्षालनजलपरिष्ठापने पृथिव्या रेलणेन भूतोपघात:' पृथिव्याश्रितकीटिकादिसवोपमदों भवति, तस्मान ऋतुबद्ध काले वस्त्रं प्रक्षालनीयम् ।। नन्वते दोषा वर्षाकालादागपि धावने सम्भवन्ति ततस्तदानीमपि न चीवराणि प्रक्षालनीयानि, तन्न, सदानी चीवरामक्षालनेऽनेकदोषसम्भवात् तानेवाह अइभार चुडण पणए सीयलपाउरणऽजीरगेलण्णे । ओहावणकायवहो वासासु अ धोवणे दोसा ॥ २५ ॥ । व्याख्या-इह वर्षाकालादोगपि यदि वासांसि न प्रक्षाल्यन्ते तदानीम् ' अतिभारः' गुरुत्वं वस्त्राणां भवति, तथाहि-वासांसि मलविद्धानि यदा जलकणानुषक्तसमीरणमात्रेणापि स्पृष्टानि भवन्ति तदाऽपि स मलः क्लिनीभूय-दृढतरं वस्त्रेषु सम्बन्धमापद्यते, कि पुनर्वासु सर्वतः सलिलमयीषु ?, ततो वर्षासु क्लिन्नमलसम्पर्कतो वासांसि गुरुतरभाराणि भवन्ति, तथा 'चुडणन्ति वाससा वर्षा-2 कालादब्बोगप्यधावने वर्षासु जीर्णता भवति शाटो भवतीत्यर्थः, किमुक्तं भवति ?-यदि नाम वर्षाकालाद|गपि वस्त्राणि न प्रक्ष्याल्यन्ते ततो वर्षामु तेषां मलक्लिन्नतया जीर्णताभवनेन शाटो भवति, न च वर्षास्वभिनववस्त्रग्रहणं, न चाधिकः परिग्रहः, ततो ये वस्त्राभावे दोषाः समये प्रसिद्धास्ते सर्वेऽपि यथायोगमुपढौकन्ते इति, तथा मलक्लिन्नेषु वखेषु शीतलजलकणसंस्पर्शतो मलस्याद्रीभावतः 'पनकः' वनस्पतिविशेषः प्राचुर्येणोपजायते, तथा च सति माणिव्यापादनासक्तिः, तथा निरन्तरं सर्वतः मसरेण निपतति वर्षे शीतले च मारते वाति मामलस्याद्रीभावतः शीतलीभूतानां वाससां प्रावरणे भुक्ताऽऽहारस्याजीर्णतायाम्-अपरिणती 'ग्लानता' शरीरमान्धमुज्जृम्भते, तथा च सति प्रवचनस्यापभाजना, यथा-अहो बठरशिरोमणयोऽमी तपखिनो न परमार्थतस्तत्त्ववेदिनो ये नाम वर्षांखप्रक्षालितानां वाससां परिभोगे| |मान्यमुपजायते इत्येतदपि नावबुध्यन्ते ते पृथग्जनापरिच्छेयं स्वर्गापवर्गमार्गमवगच्छन्तीति दुःश्रद्धेयं, तथा वर्षास्वमक्षालितानि वस्त्राणि दीप अनुक्रम [३१] ~ 26~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy