________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२७] .. "नियुक्ति: [२०] + भाष्यं [७...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२०||
तण्डुलानां चिरकालपानीयभिन्नाभिन्नत्वेन पाकस्यानियतकालत्वात् , तथाहि-ये चिरकालसलिलभिन्नास्तण्डुला न च नवीना इन्धनादि | सामग्री च परिपूर्णा ते सत्वरमेव निष्पधन्ते, शेपास्तु मन्द, ततस्तेषामपि मतेन कदाचिम्मिश्रस्याप्यचित्तत्वसम्भावनया ग्रहणमसङ्गः, कदाचित्पुनरचित्तीभूतस्यापि मिश्रत्वशङ्कासम्भवादग्रहणमिति त्रयोऽप्यनादेशाः ॥ सम्पति यः प्रवचनाविरोधी आदेशः प्रागुपदिष्टस्त विभायिघुराह
जाव न बहुप्पसन्नं ता मीसं एस इत्थ आएसो। होइ पमाणमचित्तं बहुप्पसन्नं तु नायब्वं ॥२१॥
व्याख्या-यावत्तण्डुलोदकं न बहुप्रसन्न' नातिस्वच्छीभूतं तावन्मिश्रमगन्तव्यम्, एषः 'अत्र' मिश्रविचारपक्रमे भवत्यादेशः प्रमाणं, न शेषः, यत्तु 'बहुप्रसन्नम्' अतिस्वच्छीभूतं तदचितं ज्ञातव्यं, ततोऽचित्तत्वेन तस्य ग्रहणे न कश्चिदोषः ।। उक्तो मिश्रोऽप्कायः, अधुना तमेवाचित्तमाह
सीउण्हखारखत्ते अग्गीलोणूसअंबिलेनेहे । वुकंतजोणिएणं पओयणं तेणिम होइ ॥ २२ ॥ व्याख्या---इयं गाथा प्रागिव व्याख्येया, नवरं पृथिवीकायस्थानेऽप्कायाभिलापः कर्तव्यः । इह या स्वकायपरकायशस्त्रपोजना द्रव्यक्षेत्रकालभावापेक्षया वाऽचित्तत्वभावना सापि मागिव यथायोगमकायेऽपि भावनीया । तथा यदा दधितैलादिसत्केषु घटेषु क्षिप्तस्य शुद्धजलादेरुपरि दध्यायवयवसका तरी जायते तदा सा यदि परिस्थूरा त:कया पौरुष्या तत्परिणमति, मध्यमभावा चेत्तद्विाभ्यां पौरुषीभ्यां, स्तोका चेत्तर्हि तिमृभिः पौरुषीभिरिति ।। इइ तेन व्युक्रान्तयोनिकनाप्कायेनेदं प्रयोजनमित्युक्तम् , अतस्तदेव दर्शयति
दीप अनुक्रम
[२७]
~ 24~