________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||३४२||
दीप
अनुक्रम
[ ३७०]
“पिण्डनिर्युक्ति”- मूलसूत्र -२ / १ (मूलं + निर्युक्तिः+वृत्तिः)
-->
“निर्युक्तिः [३४२ ] + भाष्यं [ २७...] + प्रक्षेपं [२...]"
८०
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
मूलं [ ३७०] मुनि दीपरत्नसागरेण संकलित
स्थानतः प्रतिषिद्धा यथा त्वयाऽप्यमुकस्मिन् दिने मदीयं प्रहेणकं न जग्रहे ततोऽहमपि त्वदीयं न ग्रहीष्यामीत्येवं निषिद्धा, ततः साऽपि मातृस्थानतः किञ्चित्परूपं प्रत्युक्तवती, द्वितीययाऽपि तथैव भाषितं तत एवं परस्परं 'संखडे' कलहे सति सा प्रणकनेत्री ' रुष्टा ' रो पवती बन्दनार्थ वसती प्रविशति, ततोऽनन्तरवृत्तं वृत्तान्तं कथयित्वा तदानीं ददाति । उक्तं स्वग्रामाभ्याहृतमपि निशीथं, सम्प्रत्यनाचीर्ण निगमयन्नाचीर्णस्य भेदानाह
एयं तु अणाइन्नं दुविपि य आहडं समक्खायं | आइन्नपि य दुविहं देसे तह देसदेसे अ ॥ ३४३ ॥ व्याख्या—' एतत् ' पूर्वोक्तमभ्याहृतं निशीथनोनिशीथभेदाद् यद्वा स्वग्रामपरग्रामभेदाद्विविधमप्याख्यातमनाचीर्णम् - अकलानीयं सम्प्रत्याचीर्ण वक्ष्ये, तदपि द्विविधं तद्यथा-देशे देशदेशे च । सम्प्रति देशस्य देशदेशस्य च स्वरूपमाह -
हत्थसयं खलु देसो आरेणं होइ देसदेसो य । आइन्नंमि ( उ ) तिगिहा ते चिय उवओगपुच्वागा ॥ ३४४ ॥ व्याख्या -' हस्तशतं ' हस्तशतममितं क्षेत्रं देशः, हस्तशतादाराद्धस्तशतमध्ये इत्यर्थः, देशदेशः, तत्र हस्तशतप्रमाणे आचीर्णे यदि गृहाणि त्रीणि भवन्ति नाधिकानि ततः कल्पते, तान्यपि चेद्राण्युपयोगपूर्वकाणि भवन्ति, उपयोगस्तत्र दातुं शक्यत इत्यर्थः, ततः कल्पते नान्यथेति । सम्पति गृहत्रयव्यतिरेकेण हस्तशतादिसम्भवं तद्विषयं करण्याकल्प्यविधिं चाह -
परिवेसणपतीए दूरपवेसो य घसालगिहे । हत्यस्या आइन्नं गहणं परओ उपडिकुटं ॥ ३४५ ॥ व्याख्या---परिवेष्यते - भोजनं दीयते येभ्यस्ते परिवेषणाः- भुञ्जानाः पुरुषास्तेषां पङ्किः-श्रेणिस्तस्यां तत्र ह्येकस्मिन पर्यन्ते
Education Immation
For Parts Only
~ 212~
Wor