________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:)
मूलं [१८] . "नियुक्ति: [११] + भाष्यं [...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||११||
ध्यभागे वेदितव्या, ताचित्तताया मिश्रतायाश्च हेतूना शीतादीनामसम्भवात् , शेषः पुनः अचित्तमिश्रवजों वक्ष्यमाणस्थानसम्भविमिश्राचितिव्यतिरिक्तो निरावाधारण्यभूम्यादिषु व्यवस्थितो व्यवहारतः सचित्तो वेदितव्यः । उक्तः सचित्तपृथिवीकायः, सम्पति तमेव मिश्रमाह
खीरदुमहे? पंथे कट्टोले इंधणे य मीसो उ । पोरिसि एग दुग तिगं बहुइंधणमज्झथोवे य ॥ १२ ॥ व्याख्या-खीरदुमद्देह 'त्ति क्षीरद्रुमा' चटाश्वत्थादयस्तेषामधस्तात्-तले यः पृथिवीकायः स मिश्रः, तत्र हि क्षीरद्रुमाणां माधुर्येण शस्त्रत्वाभावात् कियान्सचित्तः शीतादिशखसम्पर्कसम्भवाञ्च कियानचित्त इति मिश्रता, तथा पर्थि ग्रामानगराद्वा बहिर्यः पृथिवकिायो । वर्तते सोऽपि मिश्रो, यतस्तत्र गन्त्रीचक्रादिभिर्य उत्खातः पृथिवीकायः स कियान्सचित्तः कियांश्च शीतवातादिभिरचित्तीकृत इति मिश्रा, 'कहोले ति कृष्टो हलविदारितः सोऽपि प्रथमतो हलेन विदार्यमाणः सचित्तः ततः शीतवातादिभिः कियानचित्तीक्रियते इतिमिश्रः, तथाऽऽद्रों जलमिश्रितः, तथाहि-मेघस्यापि जलं सचित्तपृथिवीकायस्योपरि निपतत् कियन्तं पृथिवीकार्य विराधयति ततो जलापृथिवीकायो मिश्र उ-11 पपद्यते, सोऽप्यन्तमहत्तोदनन्तरमचित्तीभवति, परस्परशस्त्रत्वेन द्वयोरपि पृथिव्यप्काययोरचितीभवनसम्भवात् , यदा त्वतिप्रभूतं मेघजलंग निपततितदा तज्जलं यावाद्यापि स्थिति बनाति तावत् मिश्रः पृथिवीकायः, स्थितिबन्धे तु कृते सति सचित्तोऽपि सम्भाव्यते, तथा 'इन्धने गोमयादी मिश्रः, तथादि-गोमयादिकमिन्धनं सचित्तपृथिवीकायस्य शखं, शस्त्रेण च परिपीच्यमानो यावन्नायापि सर्वथापरिणमति | तावन्मिश्रः । अवेन्धनविषये कालमानमाह-पोरिसी'त्यादि, बहिन्धनमध्यगत एका पौरुषी यावन्मिश्रो मध्यमेन्धनसम्पृक्तस्तु पौ-1 पीद्विकम् अल्पेन्धनसम्पृक्तस्तु पौरुषीत्रिकं तत ऊर्द्धमचित्त इति ।। तदेवमुक्तो मिश्रः पृथिवीकाय:, साम्पतमचित्तमाह
दीप अनुक्रम
[१८]
~ 18~