________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३०८] → "नियुक्ति: [२८२] + भाष्यं [२५...] + प्रक्षेपं [R...]" मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२८२||
साधुना चोक्तं-लम्धमन्यत्र मया दुग्ध, ततो यदि भूयोऽपि प्रयोजनं भविष्पति ताई 'घेत्थी' गृहीष्पामि, एवमुक्तं साऽगारिणी ऋणभी-1 तेव स्वयं नोपबुभुजे, किन्त्वेवं चिन्तयामास-:' कल्ये दपि कृत्वा दास्यामीति, तत एवं चिन्तयिता स्थापयति, ततो द्वितीयदिने दधि जातं तदपि साधुना न गृहीतं, ततो नवनीतं तकं च जातं, नवनीतमपि घृतं कृतं, इह क्षीरादिकं सकळमपि स्थापनादोषदुष्टत्वात् साधूनां न कल्पते, यद्वा क्षीरादिकं यावन्नवनीतं मस्तु तकं वा तावदेतानि सर्वाण्यप्यात्मार्थीकृतानि मा गृह्णीयात् साधुः कुटुम्बे भविष्यतीत्येवमात्मसचाकीकृतानि साधवो गृहन्ति । घृतं त्वात्मार्थीकृतमपि तेजःकायाऽऽरम्भादाधाकर्मेति न कल्पते, घृतं च स्थापित सत् तावद् । घटते याबद्देशोना पूर्वकोटी, तथाहि-पूर्वकोटयायुषा केनापि साधुना वर्षाष्टकप्रमाणेन कस्याश्चित्पूर्वकोव्यायुषोऽमारिण्या: पार्षे घृतं । ययाचे, तयोक्तं-क्षणान्तरे दास्यामि, साधुना चान्यत्र घृतं लब्ध, ततः सा ऋणभीतेव तावद् घृतं धृतवती यावत् साधोरायुः, ततो मुते सायौ तदन्यत्रोपयुक्तमिति नास्ति स्थापना, इह वर्षाष्टकस्याधः पूर्वकोटेरुपरि च चारित्रं न भवति, चारित्रिणं चाधिकृत्य स्थापनादोषः, ततो देशोना पूर्वकोटीत्युक्तम् । एवं गुडादेरप्यविनाशिनो द्रव्यस्य यथायोग स्थापनाकालपरिमाणं द्रष्टव्यं । 'कुसुणियमिति कुसुणितमपि करम्बादिरूपतया कृतमपि यावन्तं कालमविनाशि तावत्कालं तस्य स्थापना द्रष्टव्या, परतस्तु कुथितत्वादुज्यते एवेति |भावः । तदेवं क्षीरादिकं परम्परास्थापितमुक्तं, साम्पतमिक्षुरसादिकमपि परम्परास्थापितमाह
रस कक्कब पिंडगुला मच्छंडिय खंडसकराणं च । होइ परंपरठवणा अन्नत्य व जुज्जए जत्थ ॥ २८३ ॥
व्याख्या-इह केनापि साधुना किमपि प्रयोजनमुद्दिश्य कोऽपीचरसं याचितः, स च प्रतिज्ञातवान-क्षणान्तरे दास्यामि, साधुना चान्योक्षुरसो लब्धः, पूर्वमभ्यर्थितश्च ऋणभीत इब तमिक्षुरसं ककवं करोति यावत् शर्करेति, एषां चेक्षुरसककवादीनामुत्तरोत्तरपिण्ड-12
&00000000000000000000000000000
दीप अनुक्रम [३०८]
~ 184~