________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३०३] → “नियुक्ति: [२७७] + भाष्यं [२५] + प्रक्षेपं [२...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२५||
तत एतौ स्थानरूपं स्वस्थान, भाजनरूपं तु स्वस्थानं 'पिठरं' स्थाली, तत्र स्थानस्वस्थाने भाजनस्वस्थाने च चत्वारो भङ्गाः, तपथाचुल्यां स्थापित पिठरे च १, चुट्यां स्थापितं न पिठरे छम्बकादौ स्थापितत्वात २, न चुल्यां किन्तु पिठरे, तच्च चुहयवचुल्लाभ्यामन्यत्र । प्रदेशान्तरे स्थापितं द्रष्टव्यं ३, न चुल्यां न पिठरे चुल्यवचुल्लाभ्यामन्यत्र छब्बकादौ स्थापितमित्यर्थः ४ । सम्पति परस्थानमाह
छब्बगवारगमाई होइ परट्राणमो वऽणेगविहं । सटाणे पिढरे छब्बगे य एमेव दूरे य ॥ २७८ ।। व्याख्या-छब्बकवारकादिकमनेकविध भाजनं परस्थानं भवति द्रष्टव्यं, तत्र 'छब्यक' पटलिकादिरूपं, 'वारका बघुर्घटः, आदि-1 शब्दात्पाकभाजनवर्जेचुल्यवचुल्लवशेषसकलभाजनपरिग्रहः, अत्रापि स्वस्थानपरस्थानापेक्षया चतुर्भङ्गी, तपथा-स्वस्थाने स्वस्थाने, स्वस्थाने परस्थाने, परस्थाने स्वस्थाने, परस्थाने परस्थाने । एनामेव चतुर्भङ्गी दर्शयति-'सटाण' इत्यादि, अत्र 'सहाणे पिढरे । छब्बगे य' इत्यनेन भङ्गादयं सूचितं, स्वस्थानस्य पिठरछब्बकाभ्यां प्रत्येकमभिसम्बन्धात, तद्यथा-स्वस्थाने चुल्यादौ पिठरे च, तथा । स्वस्थाने चुल्यादी छब्बके च परस्थाने, 'एमेव दूरे यति इह दूरं चुल्यवचुल्लाभ्यामन्यत्मदेशान्तर, तत्रापि तदपेक्षयाऽपि एवमेव भङ्गद्वयं द्रष्टव्यं, तद्यथा-भाजनरूपे खस्थाने पिठरे परस्थानेऽज्यत्र प्रदेशान्तरे, तथा परस्थानेऽन्यत्र प्रदेशान्तरे परस्थाने छब्यगादाविति || सर्वसङ्ख्यया चत्वारो भङ्गाः । तदेवं मूलगाथायाः सहाणेत्यादिपूर्वार्दै व्याख्यातम् । अथ 'खीराइ परंपरए' इति व्याचिख्यासुराह
एकेकं तं दुविहं अणंतरपरंपरे य नायव्वं । अविकारिकयं दव्वं तं चेव अणंतरं होई ॥ २७९ ॥
व्याख्या-तत्साधुनिमित्त स्थापितमेकैकं स्वस्थानगतं पूरस्थानगतं च द्विविधं ज्ञातव्यं, तद्यथा-'अनन्तरे' अन्तराभावे, विकाररूपन्यवधानाभावे इत्यथे, 'परम्परके ' विकारपरम्परायामित्यर्थः, तत्र यत् को स्वयोगेनाविकारि भूयोऽसम्भविविकारं घृतगुडादि कृर्त
दीप अनुक्रम
~ 182~