________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||२४४||
दीप
अनुक्रम
[२६८]
“पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
"निर्युक्तिः [ २४४] + भाष्यं [२३...] + प्रक्षेपं [२...]"
←०
आगमसूत्र [४१ / २ ], मूलसूत्र [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
मूलं [ २६८ ] मुनि दीपरत्नसागरेण संकलित
व्याख्या - इह यत् पूर्वं स्वरूपतो 'गन्धादिगुणविशिष्टं सुरभिगन्धादिगुणविशिष्टमपि, अपिरत्र सामर्थ्याद्गम्यते, पञ्चादशुचिगन्धद्रव्ययुक्तं सत् पृतिरिति परिहियते तद्द्रव्यं जानीहि द्रव्यपूतिरिति । अत्रार्थे गाथाद्वयेनोदाहरणमाह
गोडनिउत्तो धम्मी सहाऍ आसन्नगोहिभत्ताए । समियसुरवहमीसं अजिन्न सन्ना महिसिपोहो ॥ २४५ ॥ संज्ञायलित्तभत्ते गोडिगगंधोत्ति बलवणिआयो । उक्खणिय अन्न छगणेण लिंपणं दव्बपूई उ ॥ २४६ ॥
व्याख्या समिलं नाम पुरं, तत्र वहिरुद्याने सभाकलितदेवकुलिकायां माणिभद्रो नाम यक्षः, अन्यदा च तस्मिन् पुरे शीतलकाभिधमशिवमुपतस्थे ततः कैचित्तस्य यक्षस्योपयाचितकमिष्टं ययस्मादशिवाद्वयं निस्तरामस्ततस्तत्रैकं वर्षमष्टम्यादिपूयापनिकां करिष्यामः, ततो निस्तीर्णाः कथमपि तस्मादशिवात्, जातश्च तेषां चेतसि चमत्कारो यथा नूनमयं समातिहार्यो यक्ष इति, ततो देवशर्माभिवो भाटकप्रदानेन पूजाकारको बभणे, यथा वर्षमेकं यावदष्टम्यादिषु प्रातरेव यक्षसभां गोमयेनोपलिम्पेः, येन तत्र पवित्रीभूतायां वयमागत्योद्यापनिकां कुर्मः, तथैव सेन प्रतिपन्नं, ततः कदाचिदयोद्यापनिका भविष्यतीति कृत्वा सभोपलेपनार्थमनुद्रत एव सूर्ये कस्यापि कुटुम्बिनो गोपाठके उगणग्रहणाय प्रविवेश तत्र च केनापि कर्म्मकरेण रात्रौ मण्डरायभ्यवहारतो जाताजीर्णेन पश्चिमरात्रीभागे तस्मिन्नेव | गोपाटके क्षचित्मदेशे दुर्गन्धमजीर्ण पुरीषं व्युदसज्जि तस्य चोपरि कथमपि महिषी समागत्य छगणपोहं मुक्तवती, ततस्तेन स्थगितं तदजीर्ण पुरीषं देवशर्मणा न ज्ञातमिति देवशर्मा तं छगणपोई सकलमपि तथैव गृहीत्वा तेन सभामुपलिप्तवान्, उद्यापनिकाकारिणश्च जना नानाविधमोदनादिकं भोजनमानीय यावद् भोजनार्थं तत्रोपविशन्ति तावत्तेषामतीव दुरभिगन्धः समायातः, ततः पृष्टो देवशर्मा, यथा कुतो|ऽयमशुचिगन्धः समायाति? इति, तेनोक्तं-न जाने, ततस्तैः सम्यक् परिभावयद्भिरुपलेपनामध्ये वल्लाद्यवयवा ददृशिरे सुरागन्धथ निर्ज्ञातः,
Education International
For Parts Only
~168~
www.brary.org