________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||२२६||
दीप
अनुक्रम [२४८]
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
-->
मूलं [ २४८] मुनि दीपरत्नसागरेण संकलित
भाष्यं [ २२...]
“निर्युक्तिः [२२६] + + प्रक्षेपं " ८० आगमसूत्र [४१ / २ ], मूलसूत्र [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
वत्सश्च ताभिः सुरसुन्दरीभिरिव समलङ्कृतमपि तादृशं गृहं नावलोकते, नापि ताः सरागदृष्ट्या वधूः परिभावयति, किन्तु तामेव केवलां चारि पानीयं वा समानीयमानं सम्यक् परिभावयति । सूत्रं सुगमं, नवरं 'पञ्चविह ' इत्यादि, पञ्चविधविषयसौख्यस्य खनय इव खनयो या वध्वस्ताभिः समधिकम् ' अतिशयेन रमणीयतया अधिकतरं तट्टई 'न गणपति' न दृष्टया परिभावयति, नापि ता वधूः, एवं साधुरपि भिक्षार्थमटन रमणीया रमणीरवलोकयेत् नापि गीतादिषु चित्तं निवनीयात् किन्तु भिक्षामात्रानयनदानाद्युपयुक्तो भवेत्, तथा च | सति ज्ञास्यति शुद्धमशुद्धं वा भिक्षादिकम् । तथा चाह
गमणागमणुकखेत्रे भासिय सोयाइइंदियाउतो । एसणमणेसणं वा तह जाणइ तम्मणो समणो ॥ २२७ ॥
व्याख्या -' गमनं ' साघोर्भिक्षादानार्थ भिक्षानयनाय दाच्या वजनम् ' आगमनं भिक्षां गृहीत्वा साधोरभिमुखं चलनम् उत्क्षेपः ' भाजनादीनामूर्ध्वमुत्पाटनस् उपलक्षणमेतत् तेन निक्षेपपरिग्रहः, ततो गमनादिपदानां समाहारो द्वन्द्रः तस्मिन, तथा 'भाषितेषु' जल्पितेषु देहि भिक्षामस्मै साधवे इत्यादिरूपेषु श्रोत्रादिभिरिन्द्रियैरुपयुक्तः, तथा वत्स इव ' तन्मनाः ' स्वयोग्यभक्तपानीयपरिभावनमनाः सन् श्रमण एषणामनेषणां वा सम्यग् जानाति, ततो न कश्चिदोषः । उक्तमोघौदेशिकं, सम्पति विभागौदेशिकं विभणिषुः
Jacaton Internation
प्रथमतस्तावत्तस्य सम्भवमाह
महईए संखडीए उव्वरियं कूरथंजणाईयं । पउरं दट्टण गिही भणइ इमं देहि पुण्णा ॥ २२८ ॥
व्याख्या - इह सडिर्नाम विवाहादिकं प्रकरणं, सड्यन्ते - व्यापायन्ते प्राणिनोऽस्यामिति सङ्घडिरिति व्युत्पत्तेः, तस्यां सङ्खयां यदुद्धरितं 'क्रूरव्यञ्जनादिकं ' शाल्योदनदध्यादिकं प्रचुरं तद्दृष्ट्वा गृही भणति स्वकुटुम्बप्तिकारकं मानुषं यथेदं देहि पुण्यार्थं भिक्षाच
For Park Use Only
~160~