________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||२११||
दीप
अनुक्रम
[२३३]
“पिण्डनिर्युक्ति”- मूलसूत्र -२ / १ (मूलं + निर्युक्तिः+वृत्तिः)
-->
“निर्युक्तिः [२११] + भाष्यं [ २२...]
+ प्रक्षेपं " ०
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
मूलं [२३३] मुनि दीपरत्नसागरेण संकलित
एतमवकमणं जइ साहू इज्ज होज्ज तिनोमि । तणुकोटुंमि अमुच्छा भुमि य केवलं नाणं ॥ २११ ॥
व्याख्या - पोतनपुरं नाम नगरं तत्र पञ्चभिः साधुशतैः परिवृता यथागमं विहरन्तो रत्नाकर नामानः सूरयः समाययुः, तस्याश्च साधुपञ्चशत्या मध्ये प्रियङ्करो नाम क्षपकः, च मासमासपर्यन्ते पारणकं विदधाति, ततो मासक्षपणपर्यन्ते मा कोऽपि मदीयं पारणकमवयुध्याधाकम्र्म्मादिकं कार्षीदित्यज्ञात एव प्रत्यासन्ने ग्रामे पारणार्ये व्रजामीति चेतसि विचिन्त्य प्रत्यासन्ने कचिद् ग्रामे जगाम । तत्र च यशोमतिर्नाम श्राविका, तया च तस्य क्षपकस्य मासक्षपणकं पारणकदिनं च जनपरम्परया श्रुतं, ततस्तया तस्मिन् पारण कदिने कदाचि दद्य स क्षपकोऽत्र पारणककरणाय समागच्छेदितिबुद्धया परमभक्तिवशतो विशिष्टशालितण्डुलैः पायसमपच्यत, घृतगुडादीनि चोपवृंदकद्रव्याणि प्रत्यासनीकृतानि ततो मा साधुः पायसमुत्तमं द्रव्यमितिकृत्वाऽऽपाकर्मशङ्कां कार्षीदिति मातृस्थानतो वटादिपत्रैः कृतेषु शरावाकारेषु भाजनेषु डिम्भयोग्या स्तोका स्तोका क्षैरैयी प्रक्षिप्ता, भणिताच डिम्भा यथा रे बालकाः ! यदा क्षपकः साधुरीदृशस्तादृशो वा समायाति तदा यूयं भणत है अम्ब! प्रभूताऽस्माकं सैरेयी परिवेषिता ततो न शक्नुमो भोक्तुम्, एवं चोक्तेऽहं युष्मान्निर्भर्त्सयिष्यामि, ततो यूयं भणत किं दिने दिने पायसमुपस्क्रियते, एवं च बालकेषु शिक्षितेषु तस्मिन्नेव प्रस्तावे स क्षपको भिक्षाटन कथमपि तस्या एव गृहे प्रथमतो जगाम ततः सा यशोमतिरन्तः समुल्लसत्परमभक्तिर्मा साधोः काऽपि शङ्का भूदिति बहिरादरमकुर्वती यथास्वभाव| मवतिष्ठते, बालकाच यथाशिक्षितं भणितुं प्रवृत्ताः, तथैव च तया निर्भत्सिताः, ततः सरुषेवानादरपरया क्षपकोऽपि तया बभणे, यथाऽमी मचा बालकाः पायसमपि नैतेभ्यो रोचते, ततो यदि युष्मभ्यमपि रोचते तर्हि गृह्णीत क्षौरेयीं नो चेत् व्रजतेति तत एवमुक्ते स क्षपकसाधुर्निःशङ्को भूत्वा पायसं प्रतिग्रहीतुमुद्यतः सापि परमभक्तिमुद्रहन्ती परिपूर्णभाजनभरणं पायसं घृतगुडादिकं च दत्तवती, साधुव
For Parts Only
~152~