________________
आगम
(४१/२)
प्रत गाथांक नि/भा/प्र
||२०५||
दीप
अनुक्रम [२२७]
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
• →
मूलं [२२७]
मुनि दीपरत्नसागरेण संकलित
"निर्युक्तिः [२०५] + भाष्यं [ २२...] + प्रक्षेपं " • आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
कपोलोद्भेदमात्रं च इसन्ति, ततो यदा तवार्थायेदं कृतमिति जल्पति यद्वा 'सविलक्षं' सलज्जमन्योऽन्यमवेक्षन्ते चशब्दात् हसन्ति वा तदा साधवस्त देयमाधाकम्मैति परिज्ञाय वर्जयन्ति यदा तु कस्यार्यायेदं कृतमिति पृष्टा सती गाढं सत्यवृत्या रुष्टा भवति, यथा का'भ'भहारक! तव तप्तिः ? इति तदा नैवाधाकम्र्मेति निःशङ्कं गृह्णीत ॥ सम्प्रति 'गहियमदोस' चेत्यवयवं व्याचिख्यासुः परं प्रश्नयतिगूढायारा न करेंति आयरं पुच्छियावि न कर्हेति । थोवंति व नो पुट्ठा तं च असुद्धं कहं तत्थ ? ॥ २०६ ॥
Education Intonation
व्याख्या-इह ये श्रावकाः श्राविकाश्यातीत्र भक्तिपरवशगा गूढाचाराच ते नादरमतिशयेन कुर्वन्ति, मा भून्न ग्रहीष्यतीति, नापि पृष्टाः सन्तो यथावत्कथयन्ति यथा तवार्थायेदं कृतमिति, अथवा स्तोकमिति कृत्वा ते साधुना न पृष्टाः अथ च तदेयं वस्तु 'अशुद्धम्' आधाकर्मदोषदुष्टम्, अतः कथं तत्र साधोः शुद्धिर्भविष्यति ? इति । एवं परेणोक्ते गुरुराद-
आहाकम्मपरिणओ फायभोईवि बंधओ होइ । सुद्धं गवेसमाणो आहाकम्मेवि सो सुद्धो ॥ २०७ ॥
व्याख्या-- इह प्राकग्रहणेन एषणीयमुच्यते सामर्थ्यात् तथाहि साधूनामयं कल्पः- ग्लानादिप्रयोजनेऽपि प्रथमतस्तावदेषणीयॐ मेषितव्यं तदभावेऽनेषणीयमपि श्रावकादिना कारयित्वा श्रावाभावे स्वयमपि कृत्वा भोक्तव्यं, न तु कदाचनापि प्रासुकाभावेऽमासुकमिति, ततः कदाचिदप्यमामुक भोजनासम्भवे 'फानुयभोईवि' इति वाक्यमनुपपद्यमान मर्यास्माकशब्दमेषणीये वर्त्तयति, ततोऽयमर्थ:'प्राकभोज्यपि एषणीयभोज्यपि यद्याधाकर्म्मपरिणतस्तर्हि सोऽशुभकर्म्मणां बन्धको भवति, अशुभपरिणामस्यैव वस्तुस्थित्या बन्धकारणत्वात्, 'शुद्धम्' उगमादिदोषरहितं पुनर्गवेषयन् आधाकर्म्मण्यपि गृहीते भुक्ते च शुद्धो वेदितव्यः, शुद्धपरिणामयुक्तत्वात् । एत| देव कथानकाभ्यां भावयति —
For Parts Only
~ 150 ~
aru