________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः)
मूलं [६] .→ “नियुक्ति: [६] + भाष्यं ] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||६||
च्छत्यगच्छति वा गोपिण्डे गोशब्दस्य प्रवृत्तिः, एवं सर्वेष्वपि जातिशब्देषु नामम् व्युत्पत्तिनिमित्तवत्सु भावनीयं, ये तु जातिशब्दा व्युस्पतिरहिता यथाकथञ्चिजातिमत्सु रूदिमुपागतास्तेषु व्युत्पत्तिनिमित्तमेव नास्तीति कुतस्तत्र जातेव्युत्पत्तिनिमित्तत्वप्रसङ्गः, तस्माज्जातिः । (परतन्त्रापि न शब्दस्य व्युत्पत्तिनिमित्तमिति न सा गुणग्रहणेन गृह्यते, ये तु मोत्वविशिष्टा गोमानित्यादयो जातिव्युत्पत्तिनिमित्ता न ते नामरूपा इति न तैव्य॑भिचारः, ततो गुणादागतं गौणं, व्युत्तचिनिमिचं द्रव्यादिरूपं गुणमधिकृत्य यद्वस्तुनि प्रवृत्तं नाम तद्रौणनामेति भावार्थः, एतदेव च नाम लोके यथार्थमित्याख्यायते, तथा समयनं यदन्वर्थरहित समय एवं प्रसिद्धं ययौदनस्य प्राभूतिकेति नाम, उभयज यद्गुणनिष्पन्न समयपसिद्धं च, यथा धर्मध्यजस्य रजोहरणमिति नाम, इदं हि समयपसिद्धमन्वधेयुक्तं च, तथाहि-बाह्यमाभ्यन्तरं च रजो|| हियते अनेनेति रजोहरणं, तत्र बाहरजोऽपहारित्वमस्य सुप्रतीतम्, आन्तररजोऽपहरणसमर्थाश्च परमार्थतः संयमयोगाः, तेषां च कारणमिदं धर्मलिङ्गमिति कारणे कार्योपचाराद्रजोहरणमित्युच्यते, उक्तं च-"हेरइ रओ जीवाणं वझं अभितरं च ज तेणं । रयहरणति पञ्चद कारणकजोक्याराओ ॥ १ ॥ संयमजोगा इत्थं रओहरा तेसि कारणं जेणं । रयहरणं उवयारा भन्नइ तेणं रओ कम्मं ॥२॥" अनुभयज यदन्वर्थरहितं समयाप्रसिद्धं च, यथा कस्यापि पुंसः शौर्यक्रौर्यादिगुणासम्भवेनोपचाराभावे सिंह इति नाम, यद्वा देवा एनं देयासुरिति व्युत्पतिनिमित्चासम्भवे देवदत्त इति नाम । एवं पिण्ड इति वर्णावलीरूपमपि नाम गौणादिभेदाचतुर्दा, तत्र यदा बहूनां सजातीयानां विजा
तीयानां वा कठिनद्रव्याणामेकत्र पिण्डने पिण्ड इति नाम प्रवर्तते तद्गौणं, व्युत्पत्तिनिमित्तस्य वाच्ये विद्यमानत्वात् , यदा तु समयपरिभा2 १ हरति रजो जीवानां बाह्यमाभ्यन्तरं च यत्तेन । रजोहरणमिति प्रोच्यते कारणे कार्थोपचारात् ॥ १॥ संयमयोगा अत्र रोहरकास्तेषां कारणं
येन । रजोहरणमुपचारात् भव्यते तेन रजः कर्म ॥२॥
दीप अनुक्रम
~ 10~