SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [१४९] → “नियुक्ति: [१२७] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२७|| पुरद्रोहकारिस्थानीया आधाकर्मभोजिनः साधवः, नृपस्थानीयं ज्ञानावरणादिकं कर्म, मरणस्थानीयः संसारः, तत्र ये आधाकर्मभोक्तृमशंसकास्ते कर्मराज्ञो निग्राह्याः, शेषास्त्वनिग्राह्याः ॥ सम्पत्यनुमोदनाप्रकारमेव दर्शयति साउं पज्जत्तं आयरेण काले रिउक्खमं निदं । तग्गुणविकत्थणाए अभुंजमाणेऽवि अणुमन्ना ॥ १२८ ॥ ___व्याख्या-आधाकर्मभोजिन उद्दिश्य केचिदेवं युवते-वर्य तावन्न कदाचनापि मनोझमाहारं लभामहे, एते हुनः सदैव स्वादु लभ-8 ते, तदपि च 'पर्याप्तं ' परिपूर्ण, तत्रापि 'आदरेण बहुमानपुरस्सरं तत्रापि 'काले प्रस्तुतभोजनवेलायां तदपि 'ऋतुक्षम शिशिरादिऋतूपयोगि तथा 'खिग्ध घृतपूरादि, तस्माद्धन्या अमी मुखं जीवन्ति, एवं 'तद्गुणविकत्यनया' तद्गुणप्रशंसया 'अभुमानेऽपि' अनभ्यवदर-18 त्यपि 'अनुमन्या अनुमोदना, इह अनुमन्याजनितो दोषोऽपि कार्य कारणोपचारादनुमन्येत्युक्तः, ततोऽयमर्थ:-अभुञ्जानेऽपि अनुमो-18 दनाद्वारेणाधाकर्मभोजिन इव दोषो भवतीति, अन्ये तु तद्गुणविकत्यनामेवं योजयन्ति-आधाकर्मभोजिनं कोऽपि कन्दर्पणानाभोगेन वा पृच्छति-साधु लब्धं त्वया भोजनं, तथा पर्याप्तं, तथा आदरेण भक्त्या इत्यादि?, तत्राप्यविरोधः॥ तदेवमुक्तान्याधाकर्मणो नामानि, तदुक्तौ च यदुक्तं माम् मूलद्वारगाथायाम् ‘आधाकम्मियनामा' इति तयाख्यातं, सम्पति 'एगहा। इत्यवयवं व्याचिख्यामुरिदमाह___ आहा अहे य कम्मे आयाहम्मे य अत्तकम्मे य । जह बंजणनाणत्तं अत्थेणऽवि पुच्छए एवं ॥ १२९ ॥ व्याख्या-अत्र पर एवं पृच्छति, यथा आधाकर्म अधःकर्म आत्मघ्नमात्मकर्म इत्येतेषु चतुर्यु नाममु व्यञ्जनैर्नानात्वं विद्यते, तथा 'अर्थेनापि ' अर्थापेक्षयापि, नानात्वमस्ति किंवा न? इति, पृच्छतवायमभिप्रायः-इह आधाकादीनां नाम्नां सर्वेषामपि व्युत्प-18 चिनिमित्तं पृथक् पृथगुक्तं, तद्यथा-आधया कर्म आधाकर्म, अत्र साधुविषयमणिधानपुरस्सरपाकादिक्रियास्वारम्भो व्युत्पत्तिनिमित्तम् , दीप अनुक्रम [१४९] ~ 102~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy