________________
आगम
(४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०८] - "नियुक्ति: [७०] + भाष्यं [३४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः
प्रत
गाथांक नि/भा/प्र
||७०||
तव्य, उक्तमुपकरण, 'सउण'त्ति शकुनेषु सत्सु गन्तव्यं, ते चामी 'नन्दीतूर मित्यादयः, अपशकुनेषु न गन्तव्यं, ते चैते| मइलकुचेलादयः, उक्तं शकुनद्वारं, 'वावार'त्ति यद्यसौ वैद्यो भुले एकल्लशाटको वा छिन्दन् किश्चिदास्ते भिन्दन्वा ततो न प्रष्टव्यः, अथ ग्लानस्यापि गण्डकादि छेत्तन्यं ततोऽस्मिन्नैव प्रष्टव्यः, उक्तो व्यापारः, 'ठाण'त्ति यद्युत्कुरुटिकादौ तुषराश्यादी स्थितस्ततो न प्रष्टव्यः, किं तर्हि १, शुचिप्रदेशे स्थित इति, उक्तं स्थानं, "उवएस'त्ति एवमसौ यतनया पृष्टो यमुपदेशं ददाति-द्रव्यतः क्षेत्रतः कालतो भावतश्च सोऽवधारणीयः, तत्र द्रव्यतः शाल्योदनं पारिहट्ट च खीर क्षेत्रतो निर्वाता वसतिः कालतः पौरुष्यां देयं भावतो नास्थ प्रतिकूलव्यवहारिभिर्भाव्यं, उक्त उपदेशः, अथ स वैद्य एवं यात्-पश्यामि | तावत्तमिति, ततः स वैद्यस्तत्समीपमानीयते, न च ग्लानस्तत्र नेयः, किं कारणं ?, वैद्यसमीपे नीयमाने उत्क्षिप्ते लोकः कदाचिदेवं यात्-यथा नूनमयं मृत इत्यपशकुनः, मूर्छा वा भवेद्विपत्तिा धैद्यगृहे स्यादिति, आगच्छति च वैद्ये किं कर्त्तव्यं ?,15 गन्धोदकादिभिर्गन्धवासाः सन्निहिताः क्रियन्ते, तद्दानार्धमुदकमृत्तिकया विलेपनादि क्रियते । वैद्ये चागच्छति सूरिणा किं कर्त्तव्यमित्याह-'उडमणुढे अ जे दोसत्ति यद्यसावाचार्यो वैद्यस्यागतस्योत्तिष्ठति ततो लाघवदोषः, अश्रू नाभ्युद्गतिमादत्ते ततः स्तब्ध इतिकृत्वा कोपं गृहीत्वा प्रतिकूलः स्यात् , तस्मादेतद्दोषपरिजिहीर्षयाऽनागतमेवोत्थाय प्राङ्गणे परिष्वकमाणस्तिष्ठतीति । उक्तमुत्थितानुत्थितद्वारं, कियन्तं पुनः कालं तेन साधुना तस्य ग्लानस्य परिचरणं कर्तव्यमित्याह
पढमापियारजोगं नाउँ गच्छे बिइजए दिपणे । एमेव अण्णसंभोइयाण अण्णाइ वसहीए ॥ १॥ 'पढमत्ति यावत् प्रथमालिकां करोति तां चात्मनः स्वयमेवानयितुं समर्थः संवृत्तः, 'वियारजोग्ग'ति बहिभूमिगमनयोग्यो
दीप अनुक्रम [१०८]
SARERatunintaimarna
Sarasitaram.org
~84~