________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
॥७९॥
दीप
अनुक्रम
[१०९ ]
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥ ४१ ॥
“ओघनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [ १०९ ] ● → मुनि दीपरत्नसागरेण संकलित
“निर्युक्तिः [७१] + भाष्यं [ ३४... ] + प्रक्षेपं [३...]" ८० आगमसूत्र [४१/१], मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
जात इति, एवं ज्ञात्वा गच्छेत् कथं १, द्वितीये सहाये दत्ते सति, अथ नास्ति सहायस्तत एक एव ब्रजति । एष तावत्साम्भोगिकान् प्राप्य विधिरुक्तः, इदानीमसाम्भोगिकविधिमतिदिशन्नाह एवमेवान्यसाम्भोगिकग्लानस्य विधिः, किन्तु 'अण्णाए वसहीए सि अन्यस्यां वसतौ व्यवस्थितेन ग्लानपरिचरणाविधिः कार्यः, अयमपरो विशेषः - असाम्भोगिकसकाशं प्रविशता तदनाक्रान्ते भूप्रदेशे निक्षिप्योपकरणं ततः कृतिकर्मादि साम्भोगिकेष्विव सर्व कर्त्तव्यमिति, तदनाक्रान्तभूभागे चोपकरणं स्थापयति, मा भूच्छिक्षकाणां तत्सामाचारीदर्शनेऽन्यथाभावः स्यादिति । एवं तावत्साम्भोगिकबहुमध्यगतस्य ग्ठानस्य विधिः, अन्यसाम्भोगिक बहुमध्यगतस्याप्येष एव विधिर्दृश्यः । इदानीमेकैकस्य साम्भोगिकस्येतरस्य च विधिमाहएगागि गिलाणंमि उ सिट्टे किं कीरई ? न कीरई वावि। छगमुत्तकहणपाणमधुषणत्थर तस्स नियगं वा ॥ ७२ ॥
एवमसी गच्छन् ग्रामाभ्यासे कस्मादपि पुरुषादिदं शृणुयात् किं भवता ग्ठानप्रतिजागरणं क्रियते उत न ?, ततश्चैषमेकाकिनि ग्लाने 'शिष्टे' कथिते सति क्रियते न क्रियते? इत्युक्ते परेण सति साधुरप्याह- सुष्ठु क्रियते, पर आह-यद्येवं 'छगमुराकहणत्ति छगं पुरीषं मूत्रं प्रतीतं, ताभ्यां विलिप्त आस्ते, एवं कथिते सति स साधुर्षहिर्भूमेरेव 'पाणग' त्ति पानकं गृहीत्वा प्रविशति, प्रविष्टश्च 'धुवण'त्ति 'तस्य' ग्लानस्य धावनं करोति प्रक्षालनं विदधाति, उपधिश्च 'अत्थरण' सि आस्तरणं करोति 'तस्स'त्ति तदीयैरेव चीवरैः, अथ तस्यान्यानि न सन्ति ततः 'नियगं वत्ति निजैरेव चीवरैरास्तरणं करोतीति । तथा चाहसारवणं साहलय पागडघुवणे सुई समायारा । अइविंभले समाही सहुस्स आसासपडिअरणं ॥ ७३ ॥ सारवणं निष्क्रियं तस्मिन् निष्क्रिये ग्लाने कृते सति, अथवा 'सारवणे'त्ति संमार्जिते प्रतिश्रये ग्लानसंबन्धिनि सति
For Penal Use On
~ 85~
वैयावृत्त्यं नि. ७१-७३
॥ ४१ ॥
Corp